________________
श्री वर्द्धमान जिन देशना ॥१४॥
अतिथि | संविभाग | महिमा॥
继器。器器器器器端器器器器染染器器樂蒂器鑑器器錄第幾號號號號聯
ददमधिया दाता, न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं, ग्रहीता मांसलोलुपः ॥२१॥ अपात्रप्राणिनो हत्वा, पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन, ते प्रीणन्ति भुजङ्गमम् ॥२२॥ न स्वर्णादीनि दानानि, देयानीत्यहतां मतम् । अन्नादीन्यपि पात्रेभ्यो-दातव्यानि विपश्चिता ॥२३॥ ज्ञानदर्शनचारित्र-रूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा-गुप्तित्रितयशालिनः ।। २४ ॥ महाव्रतमहाभार-धरणकधुरन्धराः। परीषहोपसर्गारि-चमृजयमहाभटाः ।। २५ ।। निर्ममत्वाः शरीरेऽपि, किमुन्तान्येषु वस्तुषु ? । धर्मोपकरणं मुक्त्वा, परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषै-रदुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्म-पात्रामात्रप्रवृत्तये ॥२७॥ नवगुप्तिसनाथेन, ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः ॥२८॥ मानापमानयोर्लाभा-लाभयोः सुखदुःखयोः । प्रशंसानिन्दयोर्हर्ष-शोकयोस्तुल्यवृत्तयः ॥२९॥ कृतकारितानुमति-प्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥३०॥ सम्यग्दर्शनवन्तस्तु, देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्र, मध्यमं गृहमेधिनः ॥३१॥ सम्यक्त्वमात्रसन्तुष्टा-व्रतशीलेषु नि:स्पृहाः । तीर्थप्रभावनोद्यक्ता-जघन्यं पात्रमुच्यते ॥३२॥ कुशास्त्रश्रवणोत्पन्न-वैराग्यान्निष्परिग्रहः । ब्रह्मवर्यरताः स्तेय-मृपाहिंसापराङ्मुखाः ॥३३॥ घोरव्रता मौनजुषः, कन्दमूलफलाशिनः । शिलोच्छवृत्तयः पत्र-भोजिनो भैक्षजीविनः ॥३४॥
॥१४॥