________________
*
*
भी वर्द्धमान जिन देशना *
॥१४॥
अतिथि संविभाग महिमा
यस्या अपाने तीर्थानि, मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां, धर्माय ददते जडाः ॥७॥ प्रत्यहं दुह्यमानायां, यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुध्नी तां, दद्याद्गां श्रेयसे कथम् ? ॥८॥ स्वर्णमयी रूप्यमयी, तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनु-स्तद्दातुः कि फलं भवेत् ? ॥९॥ कामगर्द्धकरी बन्धु-स्नेहद्मदवानलः । कलेः कलितरुर्दुर्ग-दुर्गतिद्वारकुश्चिका ॥१०॥ मोक्षद्वारार्गला धर्म-धनचौरी विपत्करी । या कन्या दीयते साऽपि, श्रेयसे कोऽयमागमः ॥१३॥ विवाहसमये मृढ-धर्मबुद्धया विधीयते । यत्तु यौतुकदानं तत्-स्याद्भस्मनि हुतोपमम् ॥१२॥ यत् संक्रान्तौ व्यतीपाते, वैधृते पर्वणोरपि । दानं प्रवर्तितं लुब्धे-मुग्धसंमोहनं हि तत् ॥१३॥ मृतस्य तृप्त्यै ये दानं, तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं, सलिलैः पल्लवेच्छया ॥१४॥ विप्रेभ्यो भोजने दत्ते, श्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः, पुष्टः किं न भवेदिह ? ॥१५॥ अपत्यदत्तं चेद्दान, पितृणां पापमुक्तये । पुत्रेण तप्ते तपसि, तदा मुक्तिं पिताऽऽप्नुयात् ॥१६॥ गङ्गागयादौ दानेन, तरन्ति पितरो यदि । तत्रौक्ष्यन्तां प्ररोहाय, गृहे दग्धा द्रुमास्तदा ॥१७॥ गतानुगतिकैः कलप्त, न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि, पुण्याभावे मुधैव तत् ॥१८॥ न कोऽपि शक्यते त्रातुं, पूणे काले सुरैरपि । दत्तोपयाचितैस्तेषां, बिम्वैखाणं महाद्भुतम् ॥१९॥ महोतं वा महाजं वा, श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च, पातयेन्नरकावटे ॥२०॥
**
*
ॐ
॥१४॥
*
*