________________
श्रीरणशूर कथा॥
श्रीवर्द्धमान विराधयामीति' विचिन्त्य राजा तदश्रुतमिव मन्यमानो विशेषेण धर्मविषये मनः स्थापयामास. इता यक्षविकुर्विता कृत्रिमा जिन देशना | श्रीकांता भयंकरैकपुरुषयुता तत्रागत्य राजानं प्रति जगाद ' हे वल्लभ ! त्वमेतस्मादुरात्मनो मां मोचय ? स मम पृष्टे लग्नो॥१३८॥
ऽस्ति, निजकांतां परेण विडंब्यमानां दृष्ट्वा क उपेक्षेत ? पुनर्हे राजन् ! ममोपरि तव यो भूरिस्नेहो वर्त्तते स क्व गतः?" इत्यादि तद्वचनं श्रुत्वापि राज्ञो मनो मनागपि न चलितं. तदा यक्षस्तस्य प्रतिकूलोपसर्गीश्वकार. धूलिवृष्टिमहोरगपिपीलिकाव्याघ्रसिंहगजादीन् विकुळ तेन नानाप्रकारैः परीक्षितोऽपि स पुण्यात्मा धर्मध्यानान्न चलितः
तदा स यक्षः प्रत्यक्षीभूय हृष्टः सन् तं प्रत्यवादीत् 'हे राजन् ! नूनं त्वं धन्योऽसि कृतपुण्योऽसि त्रिभुवनमध्ये च पूजनीयोऽसि, तव मनः पौषधमध्येऽतीवनिश्चलमस्ति.
अथ हे राजन् ! वैताढयपर्वते दक्षिणश्रेण्यां गगनवल्लभाभिधं नगरं वर्त्तते, तस्य स्वामिना विद्याधरेण तव श्रीकांता प्रिया हृतास्ति, तत्र स विद्याधरो यावत्तस्याः शीलं खण्डयितुं लग्नस्तावत्तया लगुडेन हतो मृतः, अधुना सा तव कांताखं. |डितशीला तत्र वर्त्तते'. इत्युक्त्वा यक्षस्तत्र गत्वा श्रीकांतां च लात्वा राज्ञे समर्पयामास. ततो यक्षः श्रीकांतासहितं राजानं तनगरेऽमुचत् , तत्र च स बहुमणिकनकादिकं वर्षयित्वा निजस्थाने गतः
तत्रस्थोऽसौ रणशूरराजादरपूर्वकं जिनधर्ममाराधयति. पर्वतिथिषु च निरंतरं पौषधं करोति. एवं बहुकालं यावद्धर्म कृत्वानशनेन मृत्वा स ब्रह्मलोके गतः, ततश्च च्युत्वा महाविदेहे सेत्स्यति. इति रणशूरनृपदृष्टांतं श्रुत्वा भो भव्याः पौष धव्रते आदरं कुरुत १॥ इति पौषधव्रतविषये रणशूरदृष्टांतः समाप्तः ॥
NEER**
张晓器路端端茶器聯端端柴聯聯蒸继盛際聯柴柴柴柴柴聯柴柴柴聯继
888888 SE
॥१३८॥