________________
श्री रणशुर
श्रीवर्धमान जिन देशना ॥१३७॥
कया।
錦榮端端端端樂聯號號號聯懿器器鉴器器器藥聯
वासक्तीभूय धर्मनामापि न जानाति, ततः स कथं धर्म प्रतिपद्य मम विमाने समुत्पत्स्यते ? तत् श्रुत्वा मयोक्तं 'स राजात्रानीतो मया प्रतिबोधितो धर्म स्वीकरिष्यति. तत् श्रुत्वा तेन देवेन त्वमत्रानीतोऽसि. अतस्त्वमिहलोकपरलोकहिताय श्रीमदहभाषितं धर्म स्वीकुरु ?' तत् श्रुत्वा राजा भावतः सम्यक्त्वसहितं द्वादशविधं श्राद्धधर्ममंगीचकार.
इतः स देवोऽपि प्रकटीभूय तस्य स्तुतिं कृतवान, 'हे राजन् ! नूनं त्वं धन्योऽसि कृतपुण्योऽसि, त्वयात्मीय जीवितं सफलीकृतमस्ति,' इति स्तुत्वा राजानं गृहीत्वा पुनरपि तद्राज्ये स देवः स्थापयामास.
अथ स राजा पर्वेष्वहं यावजीवं पौषधं करिष्यामीत्यभिग्रहं गृहीत्वा सम्यग्ररीत्या जिनधर्म पालयामास.
अथैकदा राजा निजावासे गतस्तत्र निजभायाँ श्रीकांतामदृष्ट्वा चिन्तातुरः सर्वत्र निजपुरुषैस्तां विलोकयामास, परं कुत्रापि तस्य शुद्धिर्न लग्ना. ततो राजा नैमित्तिकमेकमाहूयापृच्छत् 'भो निमित्तज्ञ ! मम भार्या कुत्र गतास्ति ? कुतश्चाई तां लप्स्ये तत्कथय ?' तत् श्रुत्वा निमित्तज्ञोऽवादीत् 'भो राजन्नुत्तरदिशि त्वयि गते सति सा तब मिलिष्यतीति' श्रुत्वा राजोत्तरदिशं प्रति चचाल. क्रमेण राजा पंचमदिवसे एकस्यामटव्यां धनंजयाभिधयक्षचैत्ये गतः, तद्दिने च चतुर्दशीपर्वत्वाद्राजा पौषधं गृहीत्वा ध्यानमौनयुतस्तच्चैत्ये समुपविष्टः.
अथ स यक्षो राज्ञः पौषधव्रतनिश्चलतापरीक्षां चकार केनापि यक्षविकुवितेन चरेणागत्य राज्ञे प्रोक्तं 'भो राजन् ! तव प्रियां श्रीकांतां गृहीत्वैष कोऽपि गच्छति, अतो द्रुतमुत्थाय तत्पात्तिां गृहणीत !'
तत् श्रुत्वा राजा चिन्तयति, 'माता पुत्रः कलत्रं, सर्वमप्येतदनंतशो लब्धं, परमेतद्व्तसंयोगो दुर्लभस्ततः कथमेतदहं
聯聯號聯強聯柴柴柴柴柴柴聯张馨器器鉴聯號聯藥游路帶帶器端柴器
॥१३७||