________________
श्रीवर्द्धमान जिनदेशना ॥१३६॥
सैन्यादेर्गर्वः स्यात्तहिं त्वं मया सार्द्धं युद्धं कुरु ?' तत् श्रुत्वा क्रोधान्धेन राज्ञा प्रेरिता राजसुभटास्तद्वधाय धाविताः परं तेन सुभनाम दर्शयित्वा तथा ते ताडिता यथा ते सर्वेऽपि दिशो दिशं पलायिताः ततस्तेन सुभटेन स राजा केशेष्वाकृष्यानयैकस्मिन् वनखंडे मुक्त:.
अथ राजा दध्यौ ' कथमनेन मम सैन्यं भग्नमहं चात्रानीतः १ अधुना किं करोमि ? क्व गच्छामि ? कस्याये च पूत्कारं करोमि ? कुत्र मे नगरं ? क्व च मम राज्यं १ का च मे भार्या श्रीकांता ?' इत्यादि चिन्तयन् स वने परिभ्रमणं चकार.
इतस्तत्राम्रवृक्षतलोपविष्टमेकं मुनिं स ददर्श तत्र गत्वा राजा मुनिं नमस्कृत्याग्रे उपविष्टः, मुनिना पृष्टं 'भो राजन् ! वर्त्तते किं ते समाधानं ?' राज्ञोक्तं भवत्प्रसादात् ततो मुनिना तस्मै धर्मोपदेशो दत्तः, राजा धर्मदेशनां श्रुत्वा मुनिमपृच्छत् ' हे मुने ! रूपकांतियुक्तेन भवता प्रथमे वयस्येव कथं प्रव्रज्या गृहीता ?' मुनिराह 'हे राजन्नस्मिन् संसारे जीवानां मृत्युतो रक्षकः कोऽपि नास्ति, सर्वेऽपि स्वजनाः केवलं स्वार्थवशादेव मिलिताः सन्ति, न कोऽपि कस्यापि दुःखं विभज्य गृह्णाति, इति ज्ञात्वा मया राज्यं त्यक्त्वा प्रव्रज्या गृहीतास्ति '
तत् श्रुत्वा राजचिन्तयन् 'नूनमेष मुनिर्महाज्ञानी वर्त्तते, लोकालोकं च पश्यतीति' ध्यात्वा तेन पृष्टं 'हे भगवन् ! सुभटकोटी मध्यादप्यहमत्र केनानातः ?' तत् श्रुत्वा मुनिवरोऽब्रवीत् 'हे राजन् ! पंचम कल्पवास्यमृतप्रियनामैको देवोऽस्ति, स मम वंदनार्थमत्रागत आसीत् तेन मां प्रति पृष्टं यन्मयि च्युते सति मे विमाने को देवत्वेन समुत्पत्स्यते ?' मयोक्तं 'भो देव ! रणशूरो राजा तब विमाने देवो भविष्यति' तत् श्रुत्वा तेनोक्तं 'हे प्रभो ! स राजा तु निजश्रीकांताख्यपत्न्यामती
श्री सुमति मंत्रीकथा ॥
॥१३६॥