________________
श्री वर्द्धमान जिन देशना
॥१२९ ॥
वारितोऽपि न मन्यते, अतस्तेन पुत्रेण मम कार्य नास्ति, अतः परं तत्सम्बन्ध्युपालंभो मे न देयः' तत् श्रुत्वा राजा केसरिकार्यं कथयामास रे पापिष्ठ ! मम नगराच्छीघ्रं निस्सर ? यदि कदाचिन्मम धरित्र्यां त्वां विलोकयिष्यामि तदा नूनं हनिष्यामीत्युक्त्वा राज्ञा स निजदेशान्निष्कासितः,
अथासौ राज्ञो भयेन देशान्तरं व्रजन्नेकस्मिन् वनखंडे शीतलजलभृतमेकं सरोवरमपश्यत् ततो जलं पीत्वैवं स चिन्तयति ' धिग धगद्य मया चौर्य विना जलं पीतमिति' ध्यायन् यावत्स स्थितस्तावत् कोऽपि पुमान् पादुकाप्रभावेणाकाशात्तत्त* डागनिकटे उत्तीर्णः, पादुके एकान्ते च संस्थाप्य स्वयं स्नानार्थं जलमध्ये प्रविष्टः.
paisa केसरी चौरस्ते अपूर्वे पादुके दृष्ट्वा स्वपादयोः क्षिप्त्वा गगने समुत्पतितः, ततोऽसौ कुत्रचित्स्थाने दिनं पूर्णीकृत्य रात्रौ गगनमार्गेण निजगृहे गत्वा पितरं प्रत्युवाच, 'रे दुष्ट ! त्वया राज्ञे विज्ञप्य मे चौर्य कलंकं इत्वाहं पुरान्निष्कासितोऽस्मि, अतस्तत्फलं पश्ये' त्युक्त्वा स स्वजनकं गाडं ताडयामास, अतिताडनाच्च समृतः
ततोऽसौ केसरी तत्रैव नगरे कस्यापि महर्द्धिकश्रेष्ठिनो गृहात्सारं धनं गृहीत्वा रात्र्याः पाश्चात्ययामे तत्रैवाटव्यां तस्यैव तटाकस्य समीपे गगनमार्गेणागत्य गुप्तस्थाने स्थितः, एवं स प्रत्यहं रात्रौ तत्रैव नगरे चौर्येण धनिनां गृहाणि मुष्णाति.
अथ नगरलोका मिलित्वा राज्ञोऽग्रे गत्वा तच्चौरवृत्तान्तं निवेदयामासुः, तत् श्रुत्वा राज्ञारक्षकः समाकारितः, आरक्षकोऽपि हस्तौ संयोज्य कथयामास 'हे स्वामिन् ! कश्चिन्महाचौरो गगनमार्गेणागत्य नगरं मुष्णाति तन्मया किं क्रियते ? तंत् श्रुत्वा राजाचिन्तयद् 'धिग्मां यन्मयि राज्यं कुर्वति मे प्रजा चौरोपद्रुता भवति ततो राजा स्वयं स्तोकपरिवारयुतो नगरा
-****
*************
श्री केसरि
कथा ॥
॥ १२९॥