________________
श्री वर्द्धमान जिन देशना
॥१३॥
श्रीकेसरी कथा।।
炎藥鱗器樂器器器端端器器端器端端臻聽器聽聽器器器器端端蒂蒂蒂
बहिश्चौरग्रहणार्थ वनखण्डगिरिगुहाजीर्णोद्यानादिस्थानेषु बभ्राम, परं चौरो न लब्धः, मध्याहे राजा यावद्वनमध्ये स्थितोऽस्ति तावत्कर्पूरकस्तूर्यगुरुसमुद्भवा वासना तत्र समागता, तदा तेन चिन्तितमेषा वासना कुतः समायाति ? तत्र गत्वा विलोकयामीति ध्यात्वा स गंधानुसारेण गच्छन् चण्डिकायाश्चेत्ये समागतः, तत्र करकस्तूरिकादिभिरर्चितां चंडिकामूर्ति दृष्ट्वा तथा तत्पूजाकारकमपि दिव्यांबरवस्त्रविभूषितं विलोक्य राजा तं पृच्छतिस्म, 'भो भद्र ! केनैषा चण्डिकायाः पूजा कृता ? केन च ते दिव्यवस्त्राभूषणानि दत्तानि ?' तदाऽसौऽर्च कोऽवादीत 'हे राजन्नहं वणिकपुत्रोऽस्मि, दुःखितो दरिद्री द्रव्यहीनः सुखद्रव्यार्थीभूतो नित्यं चंडिकामाराधयन्नस्मि, मम भक्त्या च संतुष्टयं देवी, ततः प्रभातेऽहं यदा पूजार्थमागच्छामि, तदास्याः पादमूले मणिकनकादिकमहं प्रामोमि. एवं धनप्राप्तितो मम गृहे प्रचुरा लक्ष्मीर्वर्त्तते, तेनाहं प्रत्यहं कस्तूरिकादिभिर्देवीमर्चयामि'.
तत् श्रुत्वा राज्ञा मनसि चिन्तितं निश्चयेनात्र रात्रौ स चौरः समायाति. ततो राजा पश्चाद्वनखण्डे समागत्य संध्यावधि | तत्र स्थित्वा रात्रौ परिवारयुतश्चंडिकायाश्चैत्ये समागत्य प्रच्छन्नं स्थितः, इतः स केसरी चौरो गगनात्तत्र चैत्ये समुत्तीर्णः, वामकरे च पादुके गृहीत्वा मध्ये प्रविष्टो देवों पूजयित्वेति विज्ञपयामास, 'हे देवि! तब प्रसादादहं धनाढयो जातोऽस्मि, अतो मे रक्षापि त्वयैव कर्तव्या.' इत्युक्त्वा स यावत्पश्चाद्वलितस्तावद्राजा चैत्यस्य कपाटं दत्वा तं प्रति कथयामास 'रे पापिष्ट ! त्वं नित्यं मे नगरी मुष्णासि, अथ सांप्रतं क्व यास्यसि ?' तत् श्रुत्वा चोरः पादुके पृथ्व्यां मुक्त्वा बलात्कपाटमुद्घाट्य पलायितः, राजापि निजसेवकानवादीत् 'भो सेवका अयं केसरी चौरो याति, अत एनं द्रुतं गृहीत ?' इत्युक्त्वा राजा सेवकैः सह चौरपृष्ठे धावितः, भयभीतश्चौरोऽप्यग्रे गच्छन् वैराग्ययुतश्चिन्तयामास ' अहो! ममोग्रपापस्यात्रैव भवे फलं प्राप्तं, अद्य मे नूनं
英柴柴柴柴柴號號號號幾號幾號盜號藥藥鱗端端端端端端端藥鱗斃號
011