________________
श्रीवर्द्धमान जिन देशना
॥ १२८ ॥
वृत्तान्तं श्रुत्वा तयोर्जातिस्मरणज्ञानं समुत्पन्नं, ततोऽनित्यं संसारस्वरूपं ज्ञात्वा शुद्धभावेन ताभ्यां मुनिपार्श्वे दीक्षा गृहीता. एवं सप्तदशविधं संयमं पालयन्तौ शुद्धाहारपाने गृह्णन्तौ शुक्लध्यानं ध्यायन्तौ तावष्टकर्माणि क्षपयित्वा मुक्तिं गतौ. ततो भो भव्या एतदृदृष्टांतं श्रुत्वानर्थदण्डरूपं कठोरवचनं न वक्तव्यं अथ सोऽनर्थदंडचतुर्भेदाऽस्ति प्रमादाचरितं १ हिंसाप्रदानं २ अपध्यानं ३ पापकर्मोपदेशश्च ४ एवंविधोऽनर्थदंड: श्रावण सदा परिहर्तव्यः, आनंदश्रावकेणापि स परिहरितः
इत्यनर्थदण्डविषये सूरसेनमहसेनकथा समाप्ता ॥ अथ नवमं सामायिकव्रतम्
अथ सामायिकव्रतं कथ्यते, तद्भो भव्याः सावधानतया शृणुत ? सावद्ययोगवर्जनेनांतर्मुहूर्त्त यावच्छुभध्यानेन यद्वर्त्तनं तत्सामायिकं कथ्यते. साधूनां चिरकालमपि पालितं चारित्रं सामायिकं विना फलदं न स्यात्. अतिकुरो बहुपापरत: कुकर्म कारकोऽपि जनः सामायिकेन केसरिवत् शुद्धिं प्राप्य निर्मलो भवति तत् श्रुत्वानंदेन 'पृष्टं हे स्वामिन्! कोऽसौ केसरी ? कथं च तेन सामायिकत्रतं पालितं ? तत्कृपां विधाय कथ्यतां ?' भगवानाह
“ अस्मिन्नेव भरतक्षेत्रे कामपुरं नाम नगरं वर्त्तते, तत्र विजयचन्द्राभिधो राजा राज्यं कुर्वन् सुखेन प्रजां पालयति. तत्रैव नगरे संघदत्तनामैको धनाढ्यः श्रेष्ठी वसति परं तस्य केसग्निामा पुत्रो नगरमध्ये चौर्य करोति, पित्रा वारितोऽपि न मन्यते, तदा श्रेष्ठी राजसभायामागत्य राजानं विज्ञपयति 'हे स्वामिन् मम केसरिनामा पुत्रो नगरमध्ये चौर्य करोति मया
श्रीकेसरि
कथा ||
॥१२८॥