________________
SEN
श्री सुरसेन
महसेन कथा ॥
श्रीवर्द्धमान जिन देशना ॥१२७॥
继器需歌器器器誘器張器器器器器誘器器张密舉辦黎器
* रसनायां रोगः कथमुत्पन्नः १ तदा सूरिरवादीत् “भो महाभाग ! श्रयता ? अस्मिन् भरतक्षेत्रे मणिपुराभिध नगरं वर्त्तते, तत्र मदननामा जिनधर्मरतः सुभटो वसति, तस्य च धीरवीराभिधौ द्वौ पुत्रावास्तां. तौ द्वावपि जिनधर्ममर्मज्ञौ नवतत्ववेत्तारौ |* धर्मकर्मविषये तत्परावभूतां. एकदा तौ द्वावप्युद्याने गतौ, मार्ग चैकं मुनिवरं धरिच्यां पतितं लोकैश्च वेष्टितं दृष्ट्वा ताभ्यां लोकेभ्यः पृष्टं 'भो लोका! अस्य मुनेः किं जातं ? तैरुक्तमसौ मुनिः कार्योत्सर्गे स्थितोऽभूत्, इत एकोऽहिरागत्य तं दष्ट्वा बिलमध्ये प्रविष्टः.'
तत् श्रुत्वा लघुभ्राता वीरोऽवादीद् ‘रे रंकाः ! पलायमानोऽसौ सो युष्माभिः कथं न मारितः ?'
इति तत्कठोरवचनं श्रुत्वा वृद्धभ्राता धीरस्तं प्रत्याह 'भो भ्रातर्यदि स सर्प आत्मीयपुण्येन जीवन् गतस्तहि स्वं जिहवया कथं पापं बध्नासि',
तत् श्रुत्वा वीरोऽवादीत् 'हे भ्रातरेष दुष्टोऽहिर्मुनि दष्ट्वा पलायितोऽतोऽसावपराधी निश्चित मारयितुं योग्य एवासीत्, किश्चापराधिनो मारणे धर्म एव, न पुनरधर्मः, दुष्टानां निग्रहः शिष्टानां च पालनं क्षत्रियाणां धोऽस्ति.' वृद्धभ्रात्रोक्तं 'हे भ्रातरीडम्वचो न वक्तव्यं.'
अथ तेन धीरेण मणिमंत्रौषधादिभिमुनिःसजीकृतः, ततस्तौ द्वौ भ्रातरौ मुनिजीवनात्प्रमुदितौ गृहे समागतो. बहुदिनानि च जिनधर्म समाराध्यायुःपूर्णीकृत्य धीरजीवस्त्वं सूरसेन आसीः, वीरजीवश्च महसेनोऽभूत्. एवं कठोरवचनेन पूर्वोपार्जितकर्मानुभावेन महसेनजिवायां रोगो बभूव, असाध्यश्च स रोगस्त्वया नमस्कारमंत्रप्रभावेण दूरीकृतः." इति मुनिनोक्तं
樂器鉴器茶號鱗器器柴柴柴柴柴盛器整器器際藥器蹤器發器