SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥१२६॥ श्री सुरसेन महसेन कथा॥ रह गताः , 参茶茶器端端器器继號號號器能靠靠靠蒸器等器端器號器茶器茶器聯 शण्वन्ति तेषामपि तस्योपरि महती करुणोत्पद्यते. अथ राज्ञा तद्रोगोपशात्यर्थ महान्तो राजवैद्या आकारिताः, तैश्च यथा यथा भेषजानि कृतानि तथा तथा तस्य जिह्वा | लोहवत्कठिना बभूव, न काचिद्वेदनोपशान्ता. तदा तैवैद्यः कथितं 'भो राजन् ! सांप्रतमस्य धौषधं देहि ?' इत्युक्त्वा सर्वेऽपि वैद्याः स्वगृहे गताः, अथ तस्य रसना क्वथिता. ततश्चातीव दुर्गन्धः प्रोच्छलितः, तेन मातापितृभ्यां स्वजनैश्च स चांडालपाटकवदतिदूरे मुक्तः, एवं तस्य पार्श्वे दुर्गन्धवशात्कोऽपि स्थातुं न शक्रोति. केवलं सूरसेनो भ्रातृस्नेहेन तदुर्गन्ध सहमानस्तत्पार्श्वे स्थित्वेत्यभिग्रहं जग्राह ' यावन्मे भ्राता न भोजयति तावदहमपि किंचिदाहारं नैव गृहिष्यामि, यद्यसौ मरिष्यति तदाहमपि मरिष्यामी'त्युक्त्वा स तत्पार्श्वे स्थितस्तन्मुखाद्वस्त्रांचलेन मक्षिका उड्डापयति. अथैकदा मूरसेनेन प्रासुकजलं नवकारमंत्रण मंत्रयित्वा निजभ्रातुर्जिहुवोपरि सिक्तं, तेन तस्य स्तोकतरा वेदनोपशान्ता ततोऽसौ यथा यथा नवकारमंत्रमंत्रितजलेन तजिहवां सिञ्चति तथा तथा तस्य रोगोपशांन्तिर्जाता, दुर्गन्धश्च सर्वथा गतो मुखे च सुगन्धता समागता. एवं नवकारमंत्रमाहात्म्यतस्तस्य सर्व भव्यं संजातं. राजादयः सर्वेऽपि स्वजना महसेनं गतरोगं दृष्ट्वात्यन्तं हृष्टा बभूवुर्धर्मविषये च दृढचित्ता जाताः. ____ अथन्यदावधिज्ञानयुताः श्रीभद्रबाहुसूरयो बहुपरिवारसहितास्तन्नगरोद्याने समवसृताः. तत् श्रुत्वा सूरसेनमहसेनौ तत्र गत्वा मूरि त्रिःप्रदक्षिणीकृत्य वंदित्वोपविष्टौ, गुरुणापि धर्मोपदेशो दत्तः, देशनान्ते सूरसेनेन पृष्टं 'हे भगवन् मम भ्रातू 无端端端帶帶聯聯號號聯染樂蒂柴柴柴柴柴柴柴柴柴柴聯晓晓聯盟 ।॥१२॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy