________________
श्री वर्द्धमान जिन देशना ॥ १२३॥
*******
दत्वा तं विसर्जयामास ततो राजा सर्वसामग्रीं विधाय मुनिवन्दनार्थं निर्ययौ, नगरीलोका अपि मुनिवन्दनार्थं निर्गताः, राजा त्रिः प्रदक्षिणीकृत्य मुनिवरमवन्दत, ततो यथास्थानमुपविश्य मुनिमुखाद्धर्मदेशनां शुश्राव .
|| देशनावसाने राजा केवलिनं पृच्छति 'हे भगवन् ! निमित्तज्ञस्य वचनं कथं विघटितं ?' तेनोक्तं राजन् ! ' ग्रहयोगेन द्वादशवार्षिको दुष्कालः समुत्पन्न आसीत् परं स येन कारणेन विफली जातस्तत्कारणं निमित्तज्ञेन न ज्ञातं.' तत् श्रुत्वा विस्मितो राजा केवलिनमपृच्छत्. 'हे भगवन्! तर्हि तत्कारणं श्रोतुमहमुत्सुकोऽस्मि.' केवली उवाच 'हे राजन् तर्हि शृणु ?
अस्मिन्नेव भरते पुरिमतालाख्यं नगरं वर्तते, तत्रैको युवा धनाढ्य श्रेष्टिपुत्रो वसति परं स कर्मदोषेण महारोगपीडितोऽस्ति यथा यथा स सरसाहारं करोति तथा तथा तस्य रोगो वर्द्धते.
अथैकदा तेन चिन्तितं सरसाहारात्प्रत्युत मम रोगो वर्द्धते ततोऽहं सर्वस्य सरसाहारस्य प्रत्याख्यानं विधाय फलं गृह्णामि, इति ध्यात्वा स गुरुसमीपे गत्वा सर्वसुरसानां प्रत्याख्यानं चकार एवं तेन घृतगुडतैलदुग्धदधिप्रमुखाणां प्रत्याख्यानं कृतं कथितं च हे स्वामिन्नद्यप्रभृत्यहं कटुतिक्तकषायाम्लाहारमेव गृहिष्यामि, ऊनोदरितपश्च करिष्यामि, पुनर्हे स्वामिनहं भवतां समापे चतुर्थं व्रतं गृहूगामि, तेन च दिव्या मानुष्यास्तिर्यग्योनिका वा नारी: प्रत्याख्यामीत्यादि प्रत्याख्यानं विधाय स सुखेन तं पालयन स्थितः, व्रतप्रभावाच्च स कतिचिद्दिनै रोगेभ्यो मुक्तो बभूव क्रमेण तस्य गृहे लक्ष्मीः प्रचुरा जाता, तेन स महर्द्धिको बभूव तस्य गृहे अतावसुरुषाः सुंदराकारा देवांगनातुल्या बहवो दास्यो वर्तते, परं वैराग्यवासितचित्तः श्रेष्टी सर्वदा विषयविमुक्तो बभूव, लक्ष्म्याश्च सुपात्रदानेन सदुपयोगं व्यधात् अन्यदा तत्र दुर्भिक्षं जातं, ततोऽन्ये व्यवहा
श्रीधर्मकुमार कथा ।।
॥ १२३॥