________________
श्री वर्धमान जिन देशना ॥१२२॥
श्रीधर्मकुमारकथा॥
聯聯盛號端端端端端端端端端端端端端端議器弊端端端帶紫器端議
"अस्मिन् जंबूद्वीपे भरतक्षेत्रे कमलपुरनाम नगरमस्ति, तत्र सहस्राक्षनामा राजा गज्यं करोति, प्रजांच सुखेन पालयति. अन्यदा राजसभायामुपविष्टस्य राज्ञः पार्थे एको नमित्तिकः समागत्य राजानमाशीर्वादं दत्वोपविष्टः, तदा राजापृच्छद् भो निमित्तज्ञ ! तब निमित्तविषये किं दृश्यते ? यत्त्वं ज्ञानेन पश्यसि तत्कथय ?' तदा निमित्तज्ञ उवाच 'हे राजन् ! सावधानतया शृणु ? अथाधुना द्वादशवार्षिको दुष्कालः पतिष्यतीति मम निमित्तज्ञानाद्ज्ञायते.' तत् श्रुत्वा कम्पितो राजाचिन्तयद्यदि द्वादशवार्षिको दुष्कालः पतिष्यति तदा नूनं जनानां क्षयो भविष्यति.
अथ राजादिसर्वलोका मणिकनकरुप्यादीनि विक्रीय धान्यस्य संग्रहं कुर्वन्ति, केचिल्लोका देशान्तरे गताः, केचिच्च | प्रवहणोपरि चटित्वा परद्वीपे गताः, राजादयः केचिल्लोकास्तु चिन्ताकुलमानसास्तत्रैव स्थिताः. इत आषाढस्य प्रथमे दिवसे पूर्वदिग्वायुरागतः, पूर्वस्यां दिशि चैकं वादलमुद्गतं, तद् दृष्ट्वा राजा हृष्टः सन् चिन्तयति ध्रुवमेतद्वादले शुभसूचकमस्ति. इतो राजादिलोकेषु पश्यत्सु सत्स्वेवाकाशे मेधैर्विस्तृतं, गर्जनं जातं, विद्युद्झात्काराश्च प्रकटीभूताः, द्वादशवार्षिको दुष्कालो मम वैरी वर्त्तते इति तर्जयन्निव मेघो मुसलधाराभिर्वषितुं लग्नः, क्षणमात्रेण पृथ्वी जलमयी जाता, लोकाः सर्वेऽपि हर्षिताः परस्परं करतालं दत्वा निमित्तज्ञवचनस्य हास्यं कर्त लग्नाः, स मेघस्तथा वर्षितो यथा तयैकयैव वृटया पृथ्वी निष्पन्नधान्या जाता. ततो राजादयः सर्वेऽपि लोकास्तत्र सुखेन वसन्ति. ___अर्थकदा वनपालेनागत्य राजा विज्ञप्तो 'राजन् ! युष्माकमुद्याने युगंधराख्य एको मुनिश्चतुर्मासी यावदाहारं प्रत्याख्याय स्थित आसीत्, तस्य ध्यानमौनादिकं कुर्वतोऽद्य केवलज्ञानं समुत्पन्नमस्ति.' तत् श्रुत्वा राजातीवहृष्टो वनपालाय निजाभरणानि
॥१२२॥