________________
श्री वर्द्धमान जिन देशना ॥१२१॥
श्रीसप्तमव्रत महिमा ।।
उ०-करभाणां विवाहे तु, रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति,. अहो रुपमहो धनिः ॥१॥
उदुम्बरबटप्लक्ष-काकोदुम्बरशाग्विनाम् । पिप्पलस्य च नाश्नीयात्-फलं कृमिकुलाकुलम् ॥२५॥ अप्राप्नुवन्नन्यभक्ष्य-मपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा, पश्चोदुम्बरजं फलम् ॥२६॥ आर्द्रः कन्दः समग्रोपि सर्वः किसलयोऽपि च । स्नुही लवणवृक्षत्वक् , कुमारी गिरिकणिका ॥२७॥ शतावरी विल्ढानि, गुडूची कोमलाम्लिका । पल्ल्यङ्गोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥२८॥ अनन्तकायाः सूत्रोक्ता-अपरेऽपि कृपपारैः। मिथ्यादृशामविज्ञाता-वर्जनीयाः प्रयत्नतः ॥२९॥ स्वयं परेण वा ज्ञातं, फलमद्याद्विशारदः । निषिद्ध विषफले वा, मा भूदस्य प्रवर्तनम् ॥३०॥ रजनीभोजनत्यागे ये गुणा परितोऽपि तान् । सर्वज्ञादृते कश्चि-दपरो वक्तुमीश्वरः ॥३१॥ आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात्तानि विवर्जयेत् ॥३२॥ जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः ॥३३॥
अथ श्रीवर्द्धमानस्वामी भोगोपभोगव्रतमानंदस्याग्रे कथयति. वारंवारं यदन्नादिकं न भुज्यते तजिना भोग ब्रुवन्ति, यच्च | वस्त्राभूषणादि वारंवारं भुज्यते तदुपभोगं ब्रुवन्ति. अथ भोगोपभोगानां यः श्राद्ध ः प्रमाणं स करोति पुमानस्मिन् लोके परलोके च भोगोपभोगानां स्थानकं भवति. एवं सप्तमव्रतं यो धारयति स धर्मकुमारवद्रोगमुच्यते. तत् श्रुत्वानंदो भगवन्तं पृच्छति 'हे भगवन् ! कोऽसौ धर्मकुमारो यः सप्तमव्रतधारणेन रोगमुक्तो बभूव.' भगवानुवाच "भो आनंद! त्वं सावधानतया शणु ?