________________
श्री वर्द्धमान जिन देशना
॥१२०॥
यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मातृपत्न्योः, स किं साम्यं न कल्पयेत् १ ॥ १२ ॥ पञ्चेन्द्रियस्यैकस्यापि बधे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिर्न तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांस, रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥ १४ ॥ धान्यपाके प्राणिवधः, परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यन्ताधकः ||१५|| मांसखादकगति विमृशन्तः सस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चै- जैनशासनजुषो गृहिणोऽपि ॥१६॥ अन्तर्मुहूर्त्तात्परतः, सुसृक्ष्मा जन्तुराशयः । यत्र मूर्च्छन्ति तन्नायं, नवनीतं विवेकिमिः ॥ ३१ ॥ एकस्यापि हि जीवस्य, हिंसने किमघं भवेत् । जन्तुजातमयं तत्को- नवनीतं निषेवते ९ ॥ ३२ ॥ अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । जुगुप्सनीयं लालावत, कः स्वादयति माक्षिकम् १ ॥ ३३॥ भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः, शौनिकेभ्यो ऽतिरिच्यते ॥ ३४॥ उ० -- क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतिर्येष, केचिदानकुलादपि ॥ १॥
एकैककुसुमक्रोडा-द्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं, तदश्नन्ति न धार्मिकाः ||३५|| अौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि ||३६|| धुनोऽपि हि माधुर्य-मबोधैरह होच्यते । आसाद्यन्ते यदास्वादा-च्चिरं नरकवेदनाः ||३७|| मक्षिकामुखनिष्ठतं, जन्तुधानोद्भवं मधु । अहो पवित्रं मन्वाना - देवस्नाने प्रयुञ्जते ॥ ३८॥
श्रीसप्तमवत महिमा ॥
॥१२०॥