________________
श्री वर्द्धमान जिन देशना ॥११९॥
श्रीसप्तमव्रत | महिमा ।
柴柴柴器端茶器聯蒸器器端懿器器崇榮醫藥器樂器器器器器器器茶器
क्रीत्वा स्वयं वाऽप्युत्पाद्य, परोपहृतमेव वा । देवान् पितृन समभ्यय॑, खादन मांसं न दुष्यति ॥२८॥ मन्त्रसंस्कृतमप्यद्या-द्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय, हालाहललवोऽपि हि ॥२९॥
सद्यः संमूर्छितानन्त-जन्तुसन्तानदूषितम् । नरकाध्वनि पाथेय, कोऽश्नीयात्पिशितं सुधीः? ॥३०॥ आ०-मांसलुब्धैरमर्यादै- स्तिकः स्तोकदशिभिः । कुशास्त्रकार-वैयात्या-ददितं मांसभक्षणम् ॥१॥
नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन, यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन्नृगूथेन. वरं हि गृहशूकरः । प्राणिघातोद्भवेसिन पुनर्विघणो नरः ॥३॥ निःशेषजन्तुमांसानि, भक्ष्याणीति य ऊचिरे । नृमांसं वर्जितं शङ्के, स्वरधाशङ्कयैव तैः ॥४॥ विशेष यो न मन्येत, नृमांसपशुमांसयोः । धार्मिकस्तु ततो नान्यः, पापीयानपि नापरः ।।५।। शुक्रशोणितसम्भृतं, विष्टारसविवर्द्धितम् । लोहितं स्त्यानतामात कोऽश्नीयादकृमिः पलम् ? ॥६॥ अहो द्विजातयो धर्म, शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं, मांसमश्नन्ति चाधमाः ॥७॥ येषां तु तुल्ये मांसान्ने, सतृणाभ्यवहारिणाम् । विषामृते समे तेषां, मृत्युजीवितदायिनी ॥ ८॥ भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, ये चानुमिमने जडाः॥९॥ गोसम्भवत्वात्से मूत्रं, पयोवन्न पिबन्ति किम् ? । प्राण्यङ्गतानिमित्ता च, नौदनादिषु भक्ष्यता ॥१०॥ शङ्खादि शुचि नास्थ्यादि, प्राण्यङ्गत्वे समे यथा । औदनादि तथा भक्ष्य-मभक्ष्यं पिशितादिकम् ॥११॥
*
॥११९॥