________________
श्रीवर्द्धमान जिन देशना ॥११८॥
अवमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं, विवर्जयेन्मद्यमुपासकः सदा ॥ १३ ॥ चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं, दयाऽऽख्यं धर्मशाखिनः ॥ १५ ॥ अशनीयन सदा मांस, दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं, स रोपयितुमिच्छति ॥१६॥ हन्ता पलस्य विक्रेता, संस्कर्त्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ १७॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्ता च, वादकश्चेति घातकाः ॥१८॥ नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्य- स्तस्मान्मांसं विवर्जयेत् ॥ १९ ॥ ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये । त एव घातका यन्न, वधको भक्षकं विना ॥ २०॥ मिष्टान्नान्यपि विष्टासा दमृतान्यपि सूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य, कृते कः पापामाचरेत् ? ॥२१॥ मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृधवृकव्याध - श्रृगालास्तैर्गुरुकृताः ॥२२॥ मांस भक्षयितामुत्र, यस्य मांसमिहाद्म्यहम् । एतत्मांसस्य मांसत्वे, निरुक्तं मनुरब्रवीत् ॥२३॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धि:, शाकिन्या इव दुर्धियः ||२४|| ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य, भुञ्जते ते हलाहलम् ॥२५॥ न धर्मो निर्दयस्यास्ति, पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति, विद्या द्रोपदिशेन्नहि ||२६|| केचिन्मांसं महामोहा-दश्नन्नि न परं स्वयम् । देवपित्रतिथिभ्योऽपि, कल्पयन्ति यदूचिरे ॥ ३७॥
श्रीसप्तमव्रत महिमा ||
॥११८॥