________________
श्रीसप्तमवत महिमा ॥
श्री वर्धमान
विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादिव ॥१३॥ जिन देशना | दोषाणां कारणं मद्य, मद्यं कारणमापदाम् । रोगातुर इवापथ्यं, तस्मान्मद्य विवर्जयेत्॥१४॥ ॥११७॥ आ०-रसोद्भवाश्च भूयांसो-भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा ॥१॥
दत्तं न दत्तमात्तं च, नातं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः ॥२॥ गृहे बहिर्वा मार्गे वा, परद्रव्याणि मूढधीः । वधवन्धादिनिर्भीको- गृहणात्याच्छिद्य मद्यपः ॥३॥ बालिका युवतीं वृद्धां, ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो- मद्योन्मादकदथितः ॥४॥ रटन् गायन लुठन धावन् , कुप्यंस्तुष्यन् रुदन हसन् । स्तभ्नन्नमन भ्रमंस्तिष्ठन् , सुरापः पापराट् नटः ॥५॥ श्रूयते किल शाम्बेन, मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व, प्लोषिता च पुरी पितुः ॥६॥ पिबन्नपि मुहुर्मद्य, मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् , कृतान्त इव सर्वदा ॥७॥ लौकिका अपि मद्यस्य, बहुदोषत्वमास्थिताः। यत्तस्य परिहार्यत्व-मेवं पौराणिका जगुः ॥८॥ कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ।।९।। विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्य तथा मांसं, सेवस्वाब्रह्म चेच्छया ॥१०॥ स एवं गदितस्ताभि-द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥११॥ मयं प्रपद्य तद्भोगान्- नष्टधर्मस्थितिमदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥१२॥
路端卷张张张號號號蒸蒸蒸器器端器幾號幾號號號號器蒸器端端號號號
॥११७॥