________________
*
*
**
श्री वर्तमान जिन देशना ॥१२४॥
柴柴柴柴柴柴柴婆张晓晓器勞晓晓晓器幾號聯染染
रिणो निधना जाताः, तदा स श्रेष्ठी पक्कान्नदधिदुग्धघृतशालिदालिप्रभृतिभिर्मुनीन् प्रतिलाभयामास, स्वजनानपि च भोज-1 श्रीधर्मकुमायामास. एवं स निजव्रतमखंडं पालयित्वा दानगुणेन च लोक प्रशस्यमानः पुण्यात्मा कालमासे कालं कृत्वा प्रथमस्वर्गे र कथा।। गतः तत्र स्थितश्च स शाश्वतजिनप्रतिमाः पूजयति स्नात्रपूजां च करोति. एवं सम्यक्त्वं निर्मलीकुर्वन् स मनसि चिन्तयति यदितश्च्यवनानंतरं जैनधर्मयुतस्य कस्यचित् श्राद्धस्य गृहे चेन्ममावतारो भवेत्तदा भव्यं. अथ हे राजन् तव नगरे द्वादशवतधारकः परप्रियार्जको द्वाविंशत्यभक्ष्यद्वात्रिंशदनंतकायानां च वर्जको जिनधर्माराधकश्च सुबुद्धिनामा श्राद्धो वसति. तस्य यथार्थाभिधाना धर्मवत्याख्या भार्या वर्तते.'
अथ स देवस्ततश्च्युत्वा तस्याः कुक्षौ पुत्रत्वेन समुत्पन्नोऽस्ति, तस्य पुण्यात्मनो जन्मप्रभावादितस्तद् द्वादशवार्षिक दुर्भिक्षं दूरीभूतमस्ति. तत् श्रुत्वातीवहृष्टो राजा केवलिनं वन्दित्वा तस्य श्रेष्ठिनो गृहे च गत्वा तं बालकं विलोकयामास. ततोऽसौ मस्तके चाञ्जलिं कृत्वेत्यवादीत् 'हे दुर्भिक्षनि शक जगत्तारक त्वं जय ? तुभ्यं नमोऽस्तु ? मम राज्ये त्वं राजासि अहं च तव सेवकोऽस्मि, नूनं त्वं मूर्त्तिमान् धर्मोऽसि. अतस्तव धर्मकुमार इति नामास्तु ?' एवं तं बालकं स्तुत्वा राजा निजावासे समायातः, क्रमेण स धर्मकुमारः पित्रा परिणायितो यौवनं प्राप्तः, तत्र च स देववद्विषयसुखानि भुक्ते. एवं |* चिरकालं स सुखानि भक्त्वा दानं दत्वा सुगुरुपार्श्व प्रव्रज्यां गृहीत्वा केवलज्ञानमुत्पाद्य मुक्तिं ययौ.
॥ इति सप्तमभोगोपभोगविरमणव्रतविषये धर्मकुमारकथा समाप्सा ॥ इति धर्मकुमारचरित्रं श्रुन्वा भो भव्या यूयं सप्तमव्रतस्य पालनं कुरुत ? तत् श्रुत्वानंद उवाच 'हे भगवन् ! ममाप्येतद् | ॥१२४॥
张继柴柴柴柴柴柴柴柴柴柴柴验器能茶茶器茶茶茶器