________________
श्री वर्द्धमान
जिन देशना ॥११३॥
श्रीचारुदत्व । कथा।
篮紫禁柴柴柴柴柴柴柴染器整器器影器茶器聯醫藥聯盛验器能鉴聚
श्रापयामास 'हे महाभाग! पूर्वभवे त्वया जीववधः कृतस्तेन पापेनाद्य त्वं हनिष्यसे, मनसा वचसा कायेन वा प्राणिना यच्छुभाशुभं कर्माजितं भवेत्तत्परभवे नियमेन वेदितव्यं भवति. अतस्त्वं प्राणातिपातं मृषावादमदत्तं मैथुनं च सर्वथा त्यज ! पुनः सर्वपरिग्रहविषये नियमं कुरु ? अरिहंतसिद्धसाधुजैनधर्माणां शरणं कुरु ? सर्वजीवैः सह क्षामणं कुरु ? सर्वजीवेभ्यः क्रोधं त्यज ! सर्वजीवेषु च मैत्रीभावं कुरु ?' एवं स छागस्य कर्णमूले स्वमुखं धृत्वा पुनः पुनः श्रीनमस्कारं श्रावयामास. ततो रुद्रदत्तेनागत्य स चारुदत्तस्य छागोऽपि मारितः, तच्चर्मणश्च द्वितीया दृति कृता. ततोऽसावेकायां दृतौ चारुदत्तं निक्षिप्य द्वितीयस्यां च स्वयमुपविष्टः. इतो द्वौ भारण्डौ तत्रागत्यामिषलोभेन तौ दृती उत्पाटथ गगनमध्ये गतौ, अग्रे तयोरपरे भारण्डा मिलिताः, परस्परं युद्धे जाते तयोर्मुखात्पतितौ तौ दृती एकस्मिन् सरावरमध्ये. द्रुतं तौ दृती त्रोटयित्वा सरोजलं च तीटिव्यां भ्रभितुं लग्नौ..
अथ चारुदत्त इतस्ततः परिभ्रमन्नकस्मिन् गिरिशङ्गे मुनिमेकमुपविष्टं ददर्श. तत्र स मुनिरूव॑बाहुरातापनां गृह्णन् स्थित आसीत. ततोऽसौ सुनिः कायोत्सर्ग पारयित्वा चारुदत्तं प्रत्युवाच 'हे महानुभाव ! त्वं कोऽसि ? किमर्थ चात्रागतः ? असौ कंभकुण्डनामा द्वीपो वर्तते, ककोडनामा चायं पर्वतोऽस्ति, अत्र द्वीपे देवविद्याधरजंघाचारणविद्याचारणमुनीन् विना न कोऽप्यायातुं शक्तोऽस्ति, अस्य द्वीपस्य चतुर्दिक्षु महासागरो वर्तते, अतस्त्वमत्र कथं समागतः ?' इति मुनिवरेण पृष्टे सति चारूदत्तेन स्वकीयः सर्वोऽपि वृत्तान्तो गद्गदवचनैनिवेदितः, तत् श्रुत्वा करुणया मुनिनोक्तं 'भो भद्र ! संसारे जीवानामापदः सुलभा भवन्ति, संपदश्च दुर्लभा भवन्ति. पुनर्हे महाभाग ! कर्मोल्लंघनं कर्तुं शक्रोऽपि न समर्थों भवति, ततो हृदये
英聯聯發柴柴柴聯號聯验職聯聯端柴聯柴柴聯聯聯聯聯聯聯強器器器
पीत. ततोऽसौ मुनिकोडनामा चायं पवतात, अतस्त्वमत्र कथ
॥११३॥