________________
श्रीचारुदत्त
श्री वर्द्धमान जिन देशना ॥११॥
कथा॥
张晓柴柴柴柴亲亲养柴柴柴柴柴茶器茶柴柴柴柴柴蒸茶器茶茶器聯;然
मारणाय धावितः, तदा चारुदत्तो नष्ट्वा पर्वतोपरि चटितो महिषश्च तन्मार्ग निरुद्धय तत्र स्थितः, इतो गिरिगुहात एकोऽजगरो निस्सृत्य तं महिषं गलयामास.
अथ चारुदत्तः पर्वतादुत्तीर्याटवीमुलंध्यकस्मिन् ग्रामे गतः, तत्र भानुश्रेष्टिन एकः सुहृद्रदत्तनामा वणिग वसति, तेन चारुदत्तं दृष्ट्रावोपलक्ष्य च मम मित्रस्य पुत्रोऽयमिति ज्ञात्वा स स्वगृहे समानीतः, चारुदत्तोऽपि सुखेन तत्र कतिचिद्दिनानि | स्थितः ___अथान्यदा तौ चारुदत्तरुद्रदत्तौ धनलोभेन स्वर्णभूमिकायां गतो, वेगवत्याख्यनदीमुत्तीर्य तौ ढंकदेशं प्राप्तौ. तत्र पंथातीवविषमो वर्तते. ततस्तल्लंघनाथ ताभ्यां द्वावर्णको गृहीती, तयोरुपयुपविष्टौ तौ कियतों भुवमल्लंघयामासतः ___अथ रुद्रदत्तश्चारुदत्तं कथयति 'भो भ्रातरितो ह्यावाभ्यां पादैः स्वर्णभूमिकायां गन्तुं न शक्यते, अत एतौ छागौ मारयित्वा तयोती क्रियेत, तत्र च प्रविश्यावां तिष्ठावो यथा भारंडपक्षिणावत्र समेत्य मांसलोभेन चञ्चुभ्यां नौ गृहीत्वा स्वर्णभूमिकायां प्रापयिष्यतः तत् श्रुत्वा चारुदत्तोऽवादीत् ' हे बांधव ! एतयोः प्रसादेनावाभ्यामटवी लंधिता, ततस्तयोः. प्रतीदं कर्म कतै न युज्यते. यादृशी पीडा निजदेहे भवति, तादृशी पीडा परदेहेऽपि भवति, ततो भो भातस्त्वं जीववधं मा कुरु ? यतः पाणवधो परभवे महादुःखदायी भवति.'
तत् श्रुत्वा रुद्रदत्तेनातं 'भो शृणु ? एतावावयोः पितरौ भ्रातरौ वा संबंधिनौ न स्तः, अत एतावहं मारयिष्यामी'त्युस्क्वा तेनात्मायं छागं मारयित्वा तच्चर्मोत्तारितं. तद् दृष्ट्वा चारुदत्तो निजछागसमीपे समागत्य दयया तं धर्ममयं वचः
继继涨涨涨涨密號染染染染染蒸蒸柴柴柴张晓晓晓晓晓晓陈涉密密
२॥