________________
श्रो बर्द्धमान जिन देशना
॥१११॥
श्रीचारुदत्त कथा॥
聽器聽聽器端鑑證號驚艷驚艷艷驚艷器器端端端端端端端端端照
वराणां सिद्धानां साधूनां च नमस्कारं करोति, प्राणातिपातमलोकमदत्तादानं मैथुनं परिग्रहं रात्रिभोजनं च प्रत्याख्याति, प्रमादं त्रिविधेन त्यजति, चतुर्विधाहारं प्रत्याख्याय सागार्यनशनं प्रतिपद्यते, आत्मानं च समाधौ संस्थाप्य चतुर्विधं
शरणं करोति, तद्यथा| अरिहंता मे शरण, सिद्धा मे शरणं, साधवो मम शरणं, केवलिप्रज्ञप्तो धर्मश्च मे शरणं भवतु. माता पिता भार्या
भगिनी सुता पुत्रादिप्रचुरस्नेहिपरिवारोऽपि मरणमुखप्राप्तानां जीवानां शरणाय न भवंति. त एव धन्याः कृतपुण्या ये तृणमिव लक्ष्मी त्यक्त्वा संसारान्निर्गताः, मादृशा लोभान्धा द्रव्यकांक्षिणो नूनमीदृशीमवस्थां प्राप्नुवन्ति'
अथ कूपमध्यस्थितो नरस्तं प्रत्युवाच 'भो साधर्मिक! त्वं दुःख मा कुरु ? शक्रोऽपि पुराकृतं कर्मापनेतुं न समर्थों भवति, पूर्वकृतकर्मणामेव फलं जीवो लभते. अद्यतस्तृतीये दिवसे गोधैकैतसं पातुमिह समायास्यति, तदा त्वं तत्पुच्छ धृत्वा कूपाबहिनिस्सरेः, अन्यः कोऽप्युपायो नास्ति.' ___अथ चारुदत्तो निजजीवितोपायं श्रुत्वातीवहृष्टो जातः. अथ स पूर्वपतितमनुष्यस्तत्र पंचपरमेष्टिनमस्कारं ध्यायन् गलितशरीरो मृतः.
इतस्तृतीये दिवसे सुरसुरशब्दं कुर्वती गोधा तत्र समागता, रसं पीत्वा च यावत्सा पश्चाद्वलिता तावजीवितव्याशया चारुदत्तेन तत्पुच्छं गृहीतं, गोधापि शीघ्र कृपानिर्गता, तदा यथा जीवो गर्भावासानिस्सरति तथा चारुदत्तोऽपि घृष्टांगोपांगः कूपानिःसृतः, गोधायाः पुच्छं मुक्त्वा श्रीनवकारमंत्र स्मरंस्तत्र स्थितः, ततोऽसौ याबदग्रे चलितस्तावदेको वनमहिपस्तं दृष्ट्वा
器器整器器際競器器蒂聽器器器继器器鑑聽器验器端露露聽器器晚
॥११॥