________________
श्रीच कथा।।
श्री वर्द्धमान अथ स परिव्राजकश्चारुदत्तं प्रत्युवाच 'रे पुत्र ! त्वमस्मिन् कूपे प्रवेशं कुरु ? तुंब चैतद्रसेन भृत्वा मह्यं देहि ? पश्चाचाजिन देशना | मप्यहं निष्कासयिष्यामि. असौ रसो जगति सारो देवानामपि दुर्लभोऽस्ति. अस्य रसस्यैकेन विन्दुनापि बहुतानं सुवर्णी॥११०॥
भवति.' तत् श्रुत्वा चारुदत्तो लोभवशेन मंचिकायामुपविष्टः, परिव्राजकेण तुवेन सह कूपमध्ये प्रावेशितः, ततोऽसौ रसनिकटं समागत्य यावद्रसं गृहणाति तावत्केनापि वारितो 'यद्भो पुरुष ! त्वं रसं मा गृहाण ?' तत् श्रुत्वा विस्मितश्चारुदत्त उवाच 'भो पुरुष ! अहं भानुश्रेष्ठिपुत्रो मुनेराज्ञयाऽत्र रसग्रहणायागतोऽस्मि, तन्मां त्वं कुतो निवारयसि ?' तत् श्रुत्वा स कूपमध्यस्थपुरुष उवाच 'भो सज्जन ! अहं सांयात्रिको वणिगस्मि, समुद्रे मम प्रवहणं भग्नं, फलकेन च समुद्राद् बहिनिर्गतः, ततोऽसौ परिव्राजको मां लोभयित्वा कूपे प्रक्षिप्य रसं गृहीत्वा गतः अतो हे मित्र! त्वामहं ब्रवीमि यदसौ दुरात्मा मनुष्यं प्रलोभ्य कूपे प्रक्षिप्य प्रथमं रसं गृहीत्वा पश्चान्मनुष्यमत्र क्षिपति. एवमनेन दुरात्मना ममापीदृश्यवस्था कृनास्ति. पुनर्हे मित्रास्य रसस्य | स्पर्शनांगानि गलन्ति, तस्माचमेनं रसं मा स्पृश? तुंबकं मे देहि ? यथा तद्रसेन भृत्वा त्वां यच्छामि.' तत् श्रुत्वा
चारुदत्तेन तस्मै तुंबकं प्रदत्तं, तेन पुरुषेणापि तद्रसेन भृत्वा चारुदत्ताय समर्पित.. ___अथ तुंबकं गृहीत्वा मंचिकायामुपविष्टश्चारुदत्तस्तं परिव्राजकं प्रत्युच्चैःस्वरेण वदति, 'भो मुने ! मया रसा गृहीतोऽस्ति, अतो मां निष्कासय ?' मुनिनोक्तं 'प्रथमं त्वं तुंबकं देहि ? पश्चादहं त्वां निष्कासयिष्यामि,' चारुदत्तेनोक्तं तुबेन सह मां निष्कासय?' तदा रुष्टेन तेन मंचिकामाकृष्य तुंबेन सह स कूपे प्रक्षिप्तः। ___अथ पुण्ययोगेन स मेखलायां पतितश्चिन्तयति 'अरे प्रथम मे द्रव्यस्य नाशो जातः, द्वितीयं पित्रोमरणं जातं. तृतीयं प्रवहणं भग्न, चतुर्थ चाहं मृत्युमुखे पतितः, हा! हा! किं करोम्यधुना!' ततोऽसौ धैर्यमंगीकृत्य मस्तके चामलिं विधाय जिन
马蒂蒂蒂蒂暴露露器端藤藤蹤器继器端臻臻臻臻懿落驚器蒂器端禁藥;
॥११०॥