________________
श्री वर्द्धमान जिन देशना ॥१०॥
श्रीचारुदत्त कथा॥
मागता..
38THEY*HEEREY
अथान्यदा कैश्चिन्नगरलोकैविदेशगमनार्थ प्रवहणानि सजीकृतानि, तदा चारुदत्तः सुरेन्द्रदत्तं पृच्छति यदहमपि एभिः सार्द्ध प्रवहणोपविष्टो देशांतरं गच्छामि, सुरेंद्रदत्तेन वारितोऽपि स द्रव्यतृष्णया दुःकर्मप्रेरणया च प्रवहणे चटितः, क्रमेण च जलधि लंघयित्वैकस्मिन् द्वीपे प्राप्तः, तत्र व्यापार कृत्वा तेन त्रयस्त्रिंशत्स्वर्णकोटयोऽर्जिताः. ___अथ चारुदत्तो मनसि चिन्तयामास 'नूनमभिः स्वर्णकोटिभिः किं ? यासां परिभोगो स्वजनमध्ये नास्तीति ध्यात्वा स स्वदेशगमनाय धनयुतः प्रवहणमध्ये चटितः, परं दुर्वातयोगेन प्रवहणं समुद्रमध्ये भग्नं, आयुर्बलेन फलकं लब्धा कतिपयदिनैरसौ राजपुरनगरसमापे उत्तरितः, एकस्मिन् वृक्षतले च गत्वोपविष्टः,
इत एकः परिव्राजक इतस्ततो भ्रमंस्तस्य समापे समागतः, तं तेजसा दीप्यमानं दृष्ट्वा चारुदत्तो दध्यौ ' नूनमसौ सामान्यपुरुषो नास्ति, अस्मिन् कयापि कलया भवितव्यमिति' विमृश्य स तं परिव्राजकं प्रणनाम. परिव्राजकेणोक्तं भो वत्स आगच्छ ? कथं दुःखीव दृश्यसे ? जंगमकल्पवृक्षतुल्ये मयि विद्यमाने तव गृहे दारिद्रयं कथं तिष्ठति ? तत् श्रुत्वा चारुदतोऽतीवतुष्टः सन्नुवाच 'हे भगवन्नद्य तव दर्शनादारिद्रयं नष्टं' इत्युक्त्वा चारुदत्तस्तस्य सेवां चकार. ___अथान्यदा स पाखण्डी परिवाजकस्तमुवाच 'भो चारुदत्त !' त्वं मम पृष्टे समागच्छ ? यथा तव दारिद्रयं विनाशयामि.' चारुदत्तोऽपि ओमित्युक्त्वा तस्य पृष्टे लग्नः, क्रमेण तौ द्वावप्येकायां महाटव्यां संपाप्तौ, अग्रे चैको महान् पर्वतः समागतः, तत्र चैकं बिलं वर्तते, तस्य द्वारमुद्घाट्य तौ द्वावपि तत्र बिले प्रविष्टौ, अग्रे गच्छतोस्तयोः कूप एकः समागतः, स कूपो महादुर्गन्धयुतो नरकावासतुल्यो महाभयंकरो वर्तते.
躁鬱驟號號號號號號號號榮醫藥藥譯器端器樂錄器
॥१०९॥