________________
*
श्री वर्द्धमान जिन देशना ॥१०८॥
श्रीचारुदत्त कथा।।
IHARRHERE 藥鱗號號號號號號聯露器器器器鉴器器器端能第
अथ वेश्या दध्यौ 'सांप्रत नूनमयं भानुपुत्रो निर्धनो जातोऽस्ति, ततोऽस्व गृहादथ द्रव्यागमनाशा नास्ति, अतोऽसौ गृहान्निष्कासनीय एवेति' ध्यात्वा तया स निजगृहानिष्कासितः.'
अथ ततो निर्गतश्चारुदत्तो लोकान् पृच्छन् यावनिजगृहे समागतस्तावद् गृहस्य जीर्णावस्थां दृष्ट्वा तथा मातापितरौ च मृतौ श्रुत्वा धनशोकसागरमग्नश्चिन्तयितुं लग्नः, 'धिग् धिग मां, मया कुपुत्रेण वेश्याव्यसनेनानेन प्रथम पितुः सर्व द्रव्य विनाशितं, पश्चाच्च पितुः प्राणा विनाशिताः' एवं सोऽतिखिन्नो रुदनं कुर्वस्तस्य भार्यया दृष्ट उपलक्षितश्च. ततस्तया स स्नेहेनालापितो 'भो स्वामिस्त्वं खेदं मा कुरु ? धीरतां समाचर ? नष्टविनष्टे भावे सत्पुरुषाः शोकं न कुर्वन्ति.' ततस्तया स्नानं भोजनं च कारितोऽसौ स्वस्थो जातः, ततो भार्यया भणितं 'स्वामिन् ममाभरणानि गृहीत्वा त्वं वाणिज्यं कुरु ? यत:
लक्ष्मीर्वसति वाणिज्ये, किंचित्किचिच्च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां नैव नैव च ॥१॥
एतत्पत्नीवचनं श्रुत्वा स हर्षितः सन् आभरणानि गृहीत्वा मातुलेन साई सार्थेन सह देशांतरे प्राप्तः, तौ भ्रमन्तौ सीरावर्त्तनगरे प्राप्ती, अल्पमूलेन ताभ्यां कार्पासो गृहीतः शकटान् भृत्वा ताम्रलिप्ती नगरी प्रति चेलतुः. एकदा उद्यानमध्ये सार्थो उत्तरितः, तदा दावानलो वनमध्ये लग्नः, कार्पासो सर्वोऽपि ज्वलितः, अकस्माद् भवितव्यतायोगेन मातुलेन चिन्तितं नूनमसौ निर्भाग्योऽस्ति, अस्य संगतो ममापि द्रव्यं गतं, इति ध्यात्वा मातुलस्तं मुक्त्वा स्वयमेकाकी निर्गतः..
चारुदत्तोऽप्येकाकी परिभ्रमन् प्रियंगुपत्तने प्राप्तः, संध्यासमयेऽन्यदिने सुरेंद्रदत्तव्यवहारिणा स दृष्टः, तदा चारुदत्तं मित्रसुतं ज्ञात्वा बहुमानपूर्वकं तं निजगृहे स्थापयामास.
***BREETTE
॥१०८॥