________________
श्रीचारुदत्त कथा ॥
श्रीवर्द्धमान वाचयति. जिन देशना * अथ क्रमेण मातपितरौ पुत्रस्येमा चेष्टां श्रुत्वातीवदुःखपूरितौ परस्परं कथयामासतुर्यद्गार्हस्थ्यव्यवहारं विना ये मदाः ॥१०७॥
केवलं शास्त्राभ्यासमेव कुर्वन्ति ते नूनं विषाणरहिताः पशव एव ज्ञेयाः, असौ परिणायितोऽपि संसारस्वरूपं किंचिदपि न जानाति, संसारस्वरूपज्ञानं विना च पुत्रादि कुतो भविष्यति ? ततोऽस्य कश्चिदुपायः क्रियते येनासौ संसारस्वरूपचतरो भवेत्। श्रेष्टिनोक्तमसौ पण्यांगनायाः संगतो नूनं शास्त्ररसं त्यक्त्वा सांसारिकविषयरसप्रवीणो भविष्यतीत्युक्त्वा श्रेष्ठी तं वसंतसेनाख्यवेश्याया गृहे मोचयामास. यस्य देवं प्रतिकूलं भवति स किं किमकार्य न करोति ? रुष्टं देवं किञ्चिच्चपेटाटिकं न ददाति, किंतु दुर्मतिमेव दत्ते, यथा स रंकवालति. यदुक्तं
विहि मट्ठो जह माणसां, नाउं घालए कूए । कां वेश्याधरे पाठवे, कां रमावे जूए ॥१॥
अथ वसंतसेनया वेश्यया स चारुदत्तः सर्वासु सुरतकलासु निपुणीकृतस्तेन च सोऽपि कृतज्ञ इव तथा तस्यामेवासक्तो बभूव यथा क्षणमपि तस्याः पार्श्व न तत्याज. एवं वेश्यागृहस्थितश्चारुदत्तः पितुः पार्थाद्यथा यथा द्रव्यं मार्गयति तथा तथा तज्जनकोऽपि ददाति, एवं मोहवशेन पुण्यार्थ निरर्थकद्रव्यव्ययं कुर्वतः पितुर्दादशवर्षाण्यगच्छन् , तत्कालावधि च षोडशकोटिद्रव्यव्ययोऽभूत्.
एवं क्रमेण स श्रेष्ठी निर्धनीभूतो भृत्य वेश्याया गृहे प्रेष्य चारुदत्तमाह्वयामास, परं चारुदत्तस्तु वेश्यायां लीनत्वात्क्ष| णमपि तां त्यक्त्वा पितुः पा. नाऽऽगात्. तदा तस्य मातापितरावार्तध्यानेन पञ्चत्वं प्राप्ती.
张继器端端继器鑑聽器端器器器聽器聽器聽聽聽器端器聽器器葬聽器
张聯帶柴柴蔡號號號號號號號器器鑑柴柴柴柴聽端馨馨藥藥藥器"
॥१०७॥