________________
श्री वर्द्धमान जिन देशना ॥१०६॥
तिना रात्रिभोजननियमो गृहीतः यद्यप्ययं रात्रिभोजननियमो भोगोपभोगांतर्वर्त्यस्ति, तथापि लोकेऽतिप्रसिद्धत्वात्पृथकृतयोक्तः इति रात्रिभोजनविषये हंसकेशवकथा समाप्ता ॥
अथ प्रथमं दिग्विरमणगुणत्रतम्
अथानंदस्याग्रे स्वामी त्रीणि गुणव्रतानि कथयति - प्रथमं दिग्विरमणाख्यं गुणवतं श्रावकेण पालनीयं, अन्यथा त्रस स्थावरजीवानां विमर्दनं भवेत्, ये श्राद्धा एतद्व्रतं न गृह्णन्ति ते तप्तलोहगोलकसदृशीभृता जीवानां घातिनो भवन्ति, ये च पुण्यात्मानस्तद्विग्प्रमाणत्रत मंगीकुर्वन्ति ते त्रिभुवने प्रसरन्तं निजलोभसमुद्रं निवारयन्ति एतद्व्रतपालको जन इह लोके परलोकेऽपि च सुखी स्यात्, ये चैतद्व्रतं न पालयन्ति ते चारुदत्तवद्दुःखिनो भवन्ति तत् श्रुत्वानंद उवाच 'हे भगवन् ! कः स चारुदत्तः ? कथं च स दुःखी जातः ! तत्कृपां विधाय निरूप्यतां स्वाम्याह
"अस्मिन् भरतक्षेत्रे चंपाख्या नगरी वर्त्तते, तत्र च भानुनामा श्रेष्ठी परिवसति, सुभद्रेति च तस्य भार्या वर्त्तते. स भानुश्रेष्ठी धर्मकृत्यानि कुर्वन् मनुष्यसुखानि भुङ्क्ते. अन्यदा तस्य श्रेष्ठिनः शुभदिवसे शुभमुहूर्त्ते चैकः पुत्रो जातः, तस्य जन्मोत्सवकरणानंतरमेकादशे दिवसेऽशुचि दूरीकृत्य द्वादशे दिवसे स्वजनसम्बधीन् भोजयित्वा तस्य चारुदत्त इति नाम कृतं. क्रमेण लाल्यमानोऽसौ वृद्धिं प्राप्य सर्वकलासु प्रवीणीभूय विशेषेण धर्मशास्त्रवेत्ताप्यभूत्.
यदा च स यौवनं प्राप्तस्तदा भानुश्रेष्ठिना निजमातुलसुतया मृगावत्या सह परिणायितः परं शास्त्ररस निमग्नोऽसौ तस्याः सङ्गं पिशाची संगसदृशं मन्यते सा मृगावती निशायां शयनगृहे यदा दीपकं करोति, तदा चारुदत्तस्तु तत्र प्रविश्य पुस्तकमेव
श्रीचारुदत्त कथा ॥
॥१०६॥