________________
श्रो बर्द्धमान जिन देशना ॥११४॥
श्रीचारुदत्त कथा॥
त्वं शोकपिशाचस्यावकाशं मा देहि ?'
इत्यादिधर्मोपदेशं मुनिस्तस्य यावद्ददाति तावद् द्वौ पुरुषौ गगनमार्गादुत्तीर्य मुनिसमीपे समागत्य तं वंदित्वोपविष्टौ, | तदा चारुदत्तेनोक्तं स्वागतं भवतोः, कुतः स्थानाधुवामत्र समागतौ ?' तदा तावूचतुर्भो सत्पुरुष ! वैताट्यपर्वतादावां समागतो, अस्य मुनिवरस्य च पुत्रौ स्वः, अतस्तातवंदनार्थमिहागतो, एवं यावत्ते वार्ता कुर्वन्ति तावद्गगने देवदुन्दुभिर्वादिता, विमानमेकं च सर्वासु दिसूद्योतं कुर्वत्तत्र गगनात् समागतं, तन्मध्यादेको देवो बहुभिर्देवैः परिवृतो निर्गत्य प्रथमं चारुदत्तं प्रदक्षिणीकृत्याऽनमत् , पश्चाच्च मुनये वंदनमकरोत्. तद् दृष्ट्वा विस्मितौ खेचरौ तं देवंप्रति जगदतु: 'भो देव ! त्वया मुनि विहाय प्रथमं श्राद्धोऽयं कथं वदितः?' देवेनोक्तं 'भो खेचरौ शणुतं ? एष श्राद्धो मे धर्माचार्योऽस्ति, मयास्य प्रसादादेषा | ऋद्धिः प्राप्तास्ति, तेन हेतुनाय महात्मा मया मुनिवरादपि प्रथमं वंदितः.
तत् श्रुत्वा ताभ्यामुक्तं 'भो देव ! एप ते धर्माचार्यः कथं ? कथं च त्वया तत्प्रसादाद् ऋद्धिःप्राप्ता ?' तत् श्रुत्वा देवेन सर्व पूर्वोक्तं पशुधातादिस्वरूपं ताभ्यां निवेदितं. ततो देवोऽअलिं विधाय चारुदत्तं प्रत्युवाच 'भो चारुदत्त! अहं स एव छागजीवस्त्वत्तो धर्म लब्ध्वैतां ऋद्धि प्राप्तवान्, अतस्त्वं कथय ? तब कं प्रत्युपकारमहं काोमीति.'
तदा तौ खेचरावूचतुः 'भो सुरराज ! त्वं निश्चिन्तो भव, आवामेनमिप्सितस्थाने नेष्यावः, तत् श्रुत्वा स देवश्चारुदत्तं स्तुत्वा मुनि च वंदित्वा देवलोके गतः. ततो मुनिवरेण तेषामग्रे दिग्विरतिव्रतं निरूपित, तत् श्रुत्वा चारुदत्तः प्रमुदितोऽवादीत् 'हे भगवन् ! दिग्विरतिव्रताभावेन मया बहूनि दुःखान्यनुभूतानि, अथ हे प्रभो निजनगरं गत्वाहमेतद्वतं ग्रहिष्यामि.'
售禁藥懿幾號號號端端樂器鉴器鑑器鑑聽器端端张继器器聽器聽聽器器
॥११४॥