________________
श्री वर्द्धमान जिन देशना ॥१०॥
श्रीकेशवकथा ।।
器等器端器蒸發器费涨涨涨涨器蒸蒸器器器器蒸器器端路器跳跳跳容
मम वचनं नैव मन्यसे तदानेन मुद्गरेण त्वां हत्वा यमगृहे प्रापयिष्यामि.' तत् श्रुत्वा स पुण्यात्मा केशवो हसन् सन् यक्षप्रत्याह 'भो यक्ष ! असौ मम गुरुर्नास्ति, यदि च त्वया मृता अपि जीवाप्यंते, तर्हि पूर्व मृतांस्तव सेवकांस्त्वं कथं न जीवा- पयसि ? यदि च त्वं राज्यं दातुं क्षमस्तहि तव भक्तानामेव तद्देहि ? अहं तु राज्यं नेच्छामि. मरणं त्वेकवारमवश्यंभावित्वान्मे ततो भयं नास्ति.' इति केशवस्य वचनानि श्रुत्वा गतक्रोधो यक्षोऽतीवहृष्टः सन् तमालिंग्यावदत् 'भो केशव ! अहं तव धर्मदृढतायास्तुष्टोऽस्मि, नूनमयं तव गुरु स्ति, केवलं मया मायां विकुळ तव परीक्षा कृता. मृताः प्राणिनो मया कथमपि न जीवाप्यन्ते, तथैव कस्यापि राज्यमपि मया न दातुं शक्यते.' एतद् दृष्ट्वातीव विस्मिता यात्रिकलोकाः केशवं प्रति ब्रुवन्ति, 'हे महाभाग ! सप्तोपवासैनूनं त्वं खिन्नोऽसि, तस्मादधुना शयनं कुरु ? अथ त्वं यदि दिवसे भोक्ष्यसे तर्हि वयमपि दिवस एव भोक्ष्याम' इन्युक्त्वैकं तल्पं तस्मै ते दर्शयामासुः, केशवोऽपि तत्र सुष्वाप. यात्रिकलोका अपि तं दृढप्रतिज्ञ विज्ञाय तस्य विश्रामणां कत्तै लग्नाः.
इतः केशवस्य निद्रा समागता, तदा यक्षः प्रत्यक्षीभूय केशवं चोत्थाप्य वदति, 'भो केशव ! रजनी गता, सूर्योदयो | जातः, अतो निद्रां मुक्त्वा सावधानो भव ?' तत श्रुत्वा केशवो यावच्चक्षुषी उद्घाट्य पश्यति तावत्तेन सर्वत्रोद्योतो दृष्टः, आकाशे च सूर्यमपि पश्यति, तदा केशवश्चिन्तयति 'अहं तु सदा ब्राह्म मुहूर्ते एव गतनिद्रो भवामि, अद्य तु अद्यापि मम नेत्रे निद्रा वर्त्तते, ततो नूनं सूर्योदयो न जातोऽस्ति,' इतिः शङ्कितमानसं केशवं विज्ञाय यक्ष आह 'भो केशव ! त्वं विस्मयं मुश्च ? प्रभातकृत्यानि च कृत्वा पारणं कुरु ?' तत् श्रुत्वा केशवः प्राह 'भो यक्षराज ! त्वं मां कि विप्रतारयसि ? अद्यापि
张晓岩张继聪蒂蒂器晓晓器柴柴幾张继號號號懿幾號號樂器端端器發業