________________
श्रीं वर्द्धमान जिन देशना
॥१०२॥
श्रीकेशव कथा॥
聽器端臻张继器崇臻臻臻臻张錄器蒸蒸跳跳跳藥会
प्रचुरा रजनी वर्तते, केवलं तव माययैवैष दिवस उद्गतोऽस्ति,' इति वदतः केशवस्योपरि आकाशात्पुष्पवृष्टिः पतिता, तथा 'हे केशव ! त्वं जय जयेति' गगनवाणी समुद्भूता. तत्क्षणमेवैको देवः प्रकटीभूतः, विस्मितः केशवो यावत्समंताद्विलोकयति तावत्तं देवं, विना न यक्षं, न यक्षमंदिरं, न चापि यात्रिकलोकान् स पश्यति. __ अथ स सुरः केशवं प्रति वदति · भो केशव ! त्वमेवैक पुण्यवतां मध्ये रत्नतुल्यो वर्त्तसे, युष्मदृशानां जन्मतो नूनं पृथ्वी रत्नगर्भा कथ्यते, अन्यदा सुरेन्द्रेण देवसभायां त्वत्प्रशंसा कृता, 'यद्यशोधरश्रेष्ठिनस्तारुण्योपेतदेहो महापुण्यात्मा केशवनामा पुत्रो रात्रिभोजन नियमात्केनापि चालयितुं न शक्यते, स मेरुचूलावत्तव्रते दृढपरिणामोऽस्ति, तत् श्रुत्वा सर्वैरपि देवैस्तथैवे. ति शक्रवचः स्वीकृतं, परं वह्निसुराभिधेन मया देवेन चिन्तितमिंद्रो यद्वदति तदसत्यं, यतो मनुष्याणां मध्ये इदृशी दृढता कुतो लभ्यते ? ततोवागत्य मया यक्षस्य गृहं यात्रिकलोकांश्च विकुळ त्वत्परीक्षा कृता, परं त्वन्मनो मनागपि चालयितुमहं क्षमो नाभवं अतो नूनं त्वं धन्यः कृतपुण्यश्चासि, भो महाभाग ! यो मया त्वदपराधः कृतस्तं प्रसादं कृत्वा क्षम्यतां. किंच हे भ्रातर्दैवदर्शन निष्फलं न स्यात्, अतस्त्वं किमपि प्रार्थय ?' केशवः प्राह 'हे देव मया सर्व प्राप्तं यद्भवतां दर्शनं जातं.' तत् श्रुत्वा देवः प्राह 'हे सत्पुरुष ! अद्यप्रभृति वत्पादप्रक्षालनजलसेकतो रोगी जनो निरोगी भविष्यति, तथातुरस्त्वं यत्किश्चिच्चित्ते चिन्तयिष्यसि तत्सर्व ते शीघ्रमेव भविष्यति, पुण्यवतां किमपि दुष्करं नास्तिइत्युक्त्वा देवस्तमेकस्य नगरस्य समीपे मुक्त्वाऽदृश्यीभूतः.
अथ केशवः प्रातःसमये निजसमीपे वप्रप्रतोलिमंदिरादिमंडितं नगरमेकं पश्यति. प्रातःकृत्यानि कृत्वा यावत्स पुरं प्रति
瓷器鑑藥鑑聽聽器蹤器器器藥鑑聽聽聽蒙器器蹤器端聽器聽聽器聽聚言
॥१०२॥