________________
श्री वर्द्धमान जिन देशना ॥१०॥
श्री केशवकथा॥
藥聯號继器跳號號號號號號器鑑器器臻懿器器器端器绕器蒸器器器
मम भक्तानां यात्रिकाणां च कथमपमानं यच्छसि ? रे पापिष्ठ ! त्वं शीघं मुंश्व ? अन्यथा तव शिरः खड्गेन शतखंडं करिष्यामि. तत् श्रुत्वा केशवः प्राह 'भो यक्ष ! कुतो मां क्षोभयसि ? मम मरणभयं नास्ति, यत्र जन्म तत्र मरणं भवत्येव, * | ततोऽत्र का भीतिः ? परं गुरोः समीपे गृहीतं व्रतं नाहं खंडयिष्यामि.' तत् श्रुत्वा यक्षः स्वकिंकराणां कथयति 'भो सेवका! अस्य पापिष्ठस्य गुरुमत्रानयत ? यथा स एनं भोजयेत्.'
अथ ते किंकरा द्रतं मायया कृत्रिमं धर्मघोषनामानं तद्गुरुं बध्ध्वा तत्रानयामासुः, केशवोऽपि तं गुरुं विलपन्तं पश्यति, | ततो यक्षस्तं कृत्रिम मुनि प्राह 'भो मुने ! त्वं स्वशिष्यं भोजनं कारय ? अन्यथा त्वामप्यहं हनिष्यामि,' तत् श्रुत्वा स मुनिः | केशवं प्रति वदति 'भो केशव ! देवगुरुसंघकार्य धर्मी पुमानकृत्यं करोत्येव, अतस्त्वं रात्रावपि भोजनं कुरु ? अन्यथासौ मां मारयिष्यति.' केशवेनोक्तं 'शृणु? यो मम गुरू रात्रिभोजनस्य नियमं ददाति, वीतरागप्रणीतं धर्म चाख्याति स मरणभयात्कथं पापोपदेशं दास्यति ? अतो नूनं त्वं मे गुरुन, किं तु मायाविनोऽस्य यक्षस्येयं सर्वा मायैव वर्तते.' तत् श्रुत्वा यथः केशवं प्रति 'कथयति, रे दुष्ट ! त्वं द्रुतं मुंश्व ? अन्यथा तव गुरुमधुनैव हनिष्यामि. केशवेनोक्तं 'रे मायविन् ! एप मम गुरुर्नास्ति, मे गुरुः पंचमहाव्रतधारकः पड्कायजीवप्रतिपालकः कदापि त्वत्सदृशानां वशे नायाति, तस्य सन्मुखमपि भवता विलोकयितुं न शक्यते.' अथ स मुनिः केशवं प्रत्युवाच 'भो केशव ! स एवाहं तव गुरुरस्मि, अतो रात्रौ भक्त्वा त्वं मां रक्ष?' इति विलपन मुनिर्यक्षेण हतो धरिच्यां पपात. तथापि दृढचित्तं केशवं प्रति यक्षो मुद्गरमुत्पाट्य वदति 'हे केशव! अधुनापि यदि भोक्ष्यसे, तदा शीघ्रमेव त्वद्गुरुमहं सजीवं करिष्यामि, महर्द्धियुक्तं च राज्यं तुभ्यं दास्यामि. यदि च त्वं
॥१०॥