________________
श्री वर्द्धमान जिन देशना ॥९९॥
श्री केशवकथा।
इतः केशवोऽपि वासार्थ तत्र चैत्ये समागतः, केशवमागच्छन्तं दृष्ट्वा हृष्टा यात्रिका वदन्ति, 'भो पांथ ! स्वागतं ते, भोजन कृत्वास्मान् कृतार्थय ? अद्य यक्षव्रतस्यास्माकं पारणकं वर्तते, तेनाद्यातिथीभूतस्त्वं प्रथमं भोजनं कुरु ! पश्चादस्माभिरपि पारणकं करिष्यते, अतिथेः प्रथमं भोजनतोऽस्माकं महत्पुण्यं भविष्यति, वयं सर्वसामग्री विधायातिथेरेवावगमनं प्रतिपाल्यमानाः स्थिता आस्मः, इतः पुण्ययोगेनैव स्वमस्माकं दृष्टिपथे समायातः तेषामित्यादिवचनानि श्रुत्वा केशवः प्राह 'भो यात्रिका एतद्भवतां कीदृश्वतं ? यस्य रात्रौ पारणकं क्रियते'. ते प्रोचुः 'भो पांथ ! इदं माणवकयक्षस्य चैत्यं वर्तते, यक्षश्चार्य महाप्रभावको जगदानंददायकोऽस्ति, अद्य चास्य यात्रास्ति, ततोऽद्य यः कोऽपि दिवसे उपोषितो तत्पूजादिविधाय रात्री कस्याप्यतिर्भोजनं कारयित्वा पारणकं करोति तस्य महत्पुण्यं भवति, ततो हे सत्पुरुष ! प्रथम त्वं भुक्ष्व ? पश्चाद्वयमपि भोजन करिष्यामः.' तत् श्रुत्वा केशवोऽवादीत् 'भो यात्रिका ! अहं न करोमि रात्रौ भोजन, रात्री भोजनं कतै युक्तं नास्ति, किंच भो यात्रिका अस्मिन्नेवं विधे दिवसे उपवासे कृते गुनासमं पुण्यं भवति रात्रौ च भोजने कृते पर्वतसमं महत्पापं भवति. तथासौ उपवास एव न भवति यत्र रात्रौ पारणकं क्रियते. ये च दिवसे उपवासं कुर्वन्ति रात्रौ च भोजनं कुर्वन्ति ते नरा दुर्गतिमेव लभते,' तद् श्रुत्वा यात्रिकाः प्रोचुर्भो सत्पुरुष ! अस्य यक्षस्य तपोविषये त्वयमेव विधिः प्रवर्तते, अतोत्र शास्त्रविचारस्त्वया न कोऽपि कर्त्तव्यः. इत्युत्क्वा ते सर्वेऽपि यात्रिकाः केशवस्य पादयोरपतन्, परं केशवेन तेषां वचनं न स्वीकृतं.
इतो यक्षप्रतिमात एको महाभयंकरः खड्गपाणिः पुमान्निर्गत्य केशवं प्रत्याह रे दुरात्मन् ! त्वं मम धर्म किं दृष्यसि ?
三聯晓晓晓聽聽聽聽端端端端端器端端端端端端端端樂器器端器器器
॥१९॥