________________
श्रीवर्द्धमान जिनदेशना
श्री केशवकथा।
॥९८॥
-RINEERIES 茶器器骁骁骁漿聽器柴柴器器藤器继器器端端端器第
भवज्जनन्या (युष्मज्जनन्या) अपि पष्ठ :उपवासोऽस्ति, पइमासिका भवद्भगिन्यपि सुकुमालशरीरा स्तन्यमलभमाना म्लानिमाप्ता दृश्यते.किंच पण्डिता अपि वदन्ति यद्राव्याः प्रथमप्रहरस्य चतुर्घटिका यावद्भोजनकरणे रात्रिभोजनदोषो न भवेन्, अथाऽधुना रात्रिघटिकाद्वयमपि गतं नास्ति, अतो भोजनं कुरुतं ? यदि च युवाभ्यां नैव भोजयिष्यते तदा भवजननी भगिनी च बुभुक्षया मरिष्यतः.' इत्यादि जनकवचांसि अत्वा क्षुत्पीडितो हंसो वृद्धभ्राता दीनमनाः केशवस्याननं पश्यति, तदा केशवेन ज्ञातं 'नूनमसौ सत्वाचलितोऽस्ति.' तदा केशवः पितरं भणति 'हे तात : यथा मम मुख भविष्यति तथैवाहं करिष्यामि, पुत्रस्य मातरं प्रति वात्सल्यं तदेव, यत्पुत्रेण माता धर्मकार्ये नियुज्यते. राच्या अर्वागंतर्मुहूर्त दिवसं यावदपि भोजनकरणे रात्रिभोजनदूषणं भवेत् , अधुना तु निशैव वर्त्तते, अतोऽत्रार्थ त्वयाहं मुहुर्मुहुर्न वक्त्तव्यः,
तत् श्रुत्वा कुपितः श्रेष्ठी पुत्रं प्रत्यवादीत् 'भो कुपुत्र ! दुष्टात्मा त्वं यदि मे बचनं न मन्यसे तदा मम गृहान्निस्सर ? मम दृष्टिपथाच्च दूरे भव ?' तत् श्रुत्वा केशवः कंदराकेसरीव द्रुतं गृहान्निर्ययौ, हंसस्तु तत्पृष्ठे गच्छन् पित्रा करयोधृत्वा प्रलोभ्य च भोजनायोपावेशितः _अथ केशवो गृहान्निर्गत्य नगरपामाकराणि लंघयन्नग्रे गच्छन्नेकस्यां महाटव्यां कस्यचिद्यक्षस्य चैत्यं ददर्श. तत्र बहवो जना यक्षस्य यात्रार्थ संमिलिताः सन्ति, एके यक्षस्य पूजां कुर्वन्ति, परे नृत्यं कुर्वन्ति, अपरे च बलिपूजार्थ लपनश्रीशालिदालिघृतवटकपक्वान्नादि निष्पादयन्ति.
器参器器鑑聽器蒸蒸警器端端器端蒸蒸器桑錄器端端器馨馨馨馨馨藥
1
.
॥९८॥