________________
श्री वर्द्धमानवः, तत् श्रुत्वा यशोधर श्रेष्ठी चिन्तयति एतौ मे पुत्रौ रात्रिभोजननियमं कारयित्वा केन धूर्तेन वञ्चितौ ? धिधिग जिन देशना जीवति सति आभ्यां कुलक्रमो मुक्तः, यद्येतौ रात्रौ भोजनं न कुर्यास्तां तर्हि मे कुलधर्मस्तु सर्वथा गत एव, अतो निश्वयेनैतयोर्दिवसेऽहं भोजनं न कारयिष्यामि, क्षुधितौ च तौ स्वयमेत्र रात्रौ भोजनं करिष्यतः' इति ध्यात्वा श्रेष्ठिना प्रच्छन्नतया भार्यायै कथितं 'दिवसे ह्येतयोस्त्वया चर्वणादिकमपि न किमपि दातव्यं.'
॥९७॥
एवं निवारितया पल्यापि भर्त्तुराज्ञावशेन तत्सर्वं स्वीकृतं.
ततः सा तयोर्भणति 'हे पुत्रौ अन्ननिष्पत्तिर्निशि भविष्यति, पक्वान्नादि च किंचिदपि गृहे नास्ति ततो रात्रावेव * युवाभ्यां पित्रा सह भोक्तव्यं, किंच त एव पुत्राः कुलीना ये पितुर्मार्गेऽनुसरन्ति' ताभ्यामुक्तं ' हे मातः पितुः सुमार्गस्तु पुत्रैः सेव्यते, परं जनकस्य कूपपतनं दृष्ट्वा पुत्रैरपि किं क्रूपे पतितव्यं ?' इत्युक्तत्वा तौ मौनं विधाय गृहान्निर्गतौ श्रेष्ठथपि ॐ कुपितो भार्यौ गाढं निवारयामास यद्रात्रावेव ताभ्यां त्वया भोजनं देयं, दिवसे तु कदाचिदपि न देयमिति,
अथ रात्रौ श्रेष्टिना भोजनार्थमाकारितौ, परं ताभ्यां भोजनं न कृतं.
अथ द्वितीयदिने कुटिलचित्तेन श्रेष्ठिना व्यापारे तथा तौ नियुङ्गौ यथा तयोस्तत्रैव सकलं दिनं व्यतीतं, अथ रात्रौ ताभ्यां * पित्रा भोजनार्थं कथितं परं ताभ्यां भोजनं न कृतं एवं तयोर्भोजनरहितानि पंचदिनानि गतानि, पष्ठे दिने समागतौ पुत्रौ ॐ प्रति यशोधरो मिष्टवचनैरुवाच 'हे पुत्रौ यथा मम सुखं भवेत्तथैव भवद्भयां कर्त्त युज्यते, सुपुत्रास्त एव ये स्वजनकं सुखं यच्छन्ति अतो युवामधुनैव भोजनं कुरुतम् ? युवाभ्यां भोजने कृते सत्येव युष्मज्जनन्यपि भोजनं करिष्यति अद्य
*******
श्री केशवकथा ॥
॥ ९७ ॥