________________
चतुर्थः परिच्छेदः । आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥
आप्तः यथार्थवक्ता तस्य वचनादाविर्भूतमुत्पन्नं यदर्थसंवेदनंपदार्थज्ञानं तदागमशब्दाभिवेयमित्यर्थः ।। १ ॥
उपचारादाप्तवचनं च ॥ २॥ ननु यदि आप्तवचनादुत्पन्नं ज्ञानमागमशब्देनाभिधीयते तर्हि आप्तवचने कथमागमशब्दप्रयोगः ? इत्याशङ्कयाहुः-उपचारादिति ।
अयं भावः प्रतिपाद्यगतज्ञानस्य कारणमाप्तवचनमिति कारणे माप्तवचने कार्योपचाराद् आप्तवचनेऽपि आगमशब्दप्रयोगः ॥ २॥ समस्त्यत्र प्रदेशे रत्ननिधानं, सन्ति रत्नसानु
प्रभृतयः ॥३॥ " समस्यत्र प्रदेशे रत्ननिधानम्" इत्यनेन लौकिकानां जनकादीनामातत्वं प्रदर्शितं, " सन्ति रत्नसानुप्रभृतयः" इत्यनेन तु लोकोत्तराणां तीर्थकरादीनामाप्तत्वं निरूपितम् ।। ३ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं
चाभिधत्ते स आप्तः ॥४॥ तस्य हि वचनमविसंवादि भवति ॥५॥
१. यस्य क।