________________
प्रमाणनयतत्त्वालोके [स०६-७ हि-यस्मात् तस्य आप्तस्य वचनमविसंवादि-सफलप्रवृत्तिजनक भवति तस्मात् स आप्त इति भावः ॥ ५ ॥
स च द्वधा लौकिको लोकोत्तरश्च ॥ ६॥ लौकिको जनकादिलों कोत्तरस्तु तीर्थकरादिः ॥७॥
अत्राऽऽहुर्मीमांसकाः-नहि पौरुषेयस्याऽऽगमस्य प्रामाण्यं भवितुमर्हति, भ्रमप्रमादादिदोषमुलभत्वात् पुरुषस्य, न च स्वर्गायतीन्द्रियवस्तुदर्शित्वं कस्यापि सम्भवति येन तदंशे तद्चनस्य प्रामाण्यं भवेत् , तस्मादपौरुषेयो वेद एवागमप्रमागवेनाङ्गीकरणीयः, न च वेदेऽपौरुषेयत्वमसिद्धं, 'वेदोऽपौरुषेयः संप्रदायाऽयवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्' इत्यनुमानेन तत्र तस्य सिद्धत्वादिति ।
तदतितुच्छम् , द्वितीयपरिच्छेदे सर्वथा दोषासंस्पृष्टस्य सकलार्थ. दर्शिनः पुरुषधौरेयस्य सर्वज्ञन्य प्रसाधितत्वात् , तदचनामाण्ये बाधकाभावात्।यदुक्तं - "अौरुषेयो वेद एव आगमप्रमागवेनाङ्गीकरणीयः" इति तदपि न युक्तम् , वेदस्य वर्णात्मकत्वात्, वर्गानां पुरुषप्रयत्नबन्यत्वाद् भारतादिवत् पौरुषेयत्वमेव सिध्यति । न च पुरुषप्रयत्नमन्तरोत्पद्यमानो वर्गात्मकः शब्दः केनचित् कुत्राप्युपगम्यः ।
यत् तु "संप्रदायाऽव्यवच्छे दे सत्यस्मर्यमाणकर्तृकत्वात्" इति हेतुरपौरुषेयेसापकत्वेनोपन्यस्तः सोऽपि विशेष्यासिद्धिदोषदुष्टत्वान स्व. साध्यसाधनायाऽलं, वैदिकैरेव नैयायिकादिभिर्वेदस्य ईश्वरकर्तृकत्वेन स्मरणात् । विशेषणं च संदिग्पासिद्धं, तथाहि-मादिमतामपि
१. °त्तरस्तीर्थ ख।