________________
स० ८-९] चतुर्थः परिच्छेदः प्रासादादीनां संप्रदायो व्यवच्छिद्यमानो दृष्टः, अनादेस्तु वेदस्य नाद्यापि संप्रदायव्यवच्छेदो जात इति कथमिव विश्वसनीयं भवेत् । ____ “प्रजापतिः सोमं राजानमन्वसजत्, तत्र त्रयो वेदा अन्वसनन्त" "प्रतिमन्वन्तरं चैषा श्रुतिरन्या विवीयते” इत्याद्यागमेनापि वेदस्य पौरुषेयत्वमेव प्रतीयते, इति न कथमपि वेदस्याऽपौरुषेयत्वं सिद्धियथमायाति नतरां प्रामाण्यामिति ॥ ७ ॥
वर्ण-पद-वाक्यात्मकं वचनम् ॥ ८॥
अकारादिः पौरालिको वर्णः ॥९॥ पुद्गलैः-भाषावर्गगापरमाणुभिरारब्धः पौद्गलिकः । एतेन वर्णनित्यत्ववादिनो मीमांसकाः, गगनगुगत्ववादिनो नैयायिकाश्च निरस्ता वेदितव्याः, तथाहि-वर्गानामुत्पत्ति-विनाशयोः प्रत्यक्षेग वीक्ष्यमाणत्वानित्यत्वं न मम्भवति, न च 'सोऽयं गकारः' इति प्रत्यभिज्ञाबलाद् वर्गानां नित्यत्वं सिध्यति, अस्याः प्रत्यभिज्ञायाः 'सेयं दीपज्वाला' 'तदेवेदमौरवम्' इत्यादिवत् सजातीयविषयत्वेन भ्रान्तत्वात् । एवं 'शब्दो न गगनगुगः, अस्नादादिप्रत्यक्षवाद रूसःदिवत्' इत्यनुमानबाधितत्वाद् गगनगुणत्वमपि न सिध्यति, तस्माद् द्रयरूपेण नित्यत्वात् पर्यायरूपेण चानित्यत्वाच्छन्दस्य नित्यानित्यत्वमेवावगन्तव्यम् ।
पौद्गलिकत्वं चास्य 'वर्णः पौगलिकः मूर्तिमत्वात्, पृथिव्यादिवत्' इत्यनुमानसिद्धम् , न च मूर्तिमत्त्वमसिद्, स्पर्शवत्वेन हेतुना तत्र तस्य सिद्धत्वात् , न च स्पर्शवत्वापि शब्दस्याऽपिवं. कर्णशकुल्यां स्पर्शस्यानुभूयमानत्वात् तस्य स्पर्शवत्वासिः, अन्यथा कथमिवोत्कटशन्द.