________________
प्रमाणनयतस्वालोके [सू० १०-११ श्रवणेन बालकादीनां कर्णोपघातो भवेत् ? भवति चायं कर्णोपघातः, तस्मात् शब्दस्य स्पर्शवत्वं नाऽसिद्धं, सिद्धे च स्पर्शवत्त्वे शब्दस्य मूर्तिमत्त्वसिद्धिः, तेन च पौद्गलिकत्वसिद्धिरिति दिक् ॥ ९ ॥ वर्णानामन्योऽन्यापेक्षाणां निरपेक्षा संहतिः पदं,
पदानां तु वाक्यम् ॥ १० ॥ वर्णानामकारादीनां, अन्योऽन्यापेक्षाणां-पदार्थप्रतिपत्तौ परस्परसहकारितया वर्तमानानाम् , निरपेक्षा-पदान्तरवर्तिवर्गनिरपेक्षा-संहतिःसंघातः पदमभिधीयते । एवमेव पदानां वाक्यार्थप्रतिपत्तौ परस्परसहकारितया स्थितानां वाक्यान्तरवर्तिपदनिरपेक्षा संहतिः वाक्यमित्युध्यते ॥ १० ॥ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं
शब्दः॥ ११ ॥ स्वाभाविकसामर्थ्य-शब्दस्यार्थप्रतिपादिका शक्तिः, समयःसंकेतः, ताभ्यां कृत्वा अर्थज्ञानस्य कारणं शब्द इति ।
अयं भावः—यद्यपि अर्थप्रतिपादने शब्दस्य स्वाभाविकं सामर्थ्यमस्ति तथापि सहकारित्वेन संकेतमपेक्षते, अन्यथा अज्ञातसंकेतस्यापि पुंसः शब्दश्रवणमात्रेणार्थोपस्थितिः स्यात्, न चैवं दृश्यते । ननु तर्हि संकेतेनैव शब्दस्यार्थबोधकत्वमङ्गीक्रियतां किमर्थं तत्र स्वाभाविकसामर्थ्य स्वीक्रियते ? इति चेद्, उच्यते-संकेतस्य पुरुषेच्छाधीनत्वात् कदाचित् 'शब्दोऽपि वाच्यः, अर्थोऽपि वाचकः' इति विपरीतमपि स्यात्, सामर्थ्यऽङ्गीक्रियमाणे तु नैवं भवितुमर्हति, तस्मात् सामर्थ्य-संकेताभ्यां शब्दस्यार्थावबोधकत्वमङ्गीकरणीयमिति ॥ ११ ॥