________________
२०१२-१४] चतुर्थः परिच्छेदः अर्थप्रकाशकत्वमस्य स्वाभाविकं, प्रदीपवद्, यथार्थाऽ
यथार्थत्वे पुनः पुरुषगुण-दोषावनुसरतः॥ १२॥
अर्थावबोधकत्वं स्वाभाविकमेव, यथार्थाऽयथार्थप्रतिपादकत्वं तु पुरुषगुण-दोषावनुसरतः । यदि पुरुषः सम्यग्दर्शी दयालुः सत्यवक्ता च तदा तत्प्रयुक्तः शब्दः यथार्थज्ञानं जनयति, अन्यथा तु अयथार्थज्ञानमुत्पादयतीति ।। १२ ॥ सर्वत्रायं ध्वनिविधि-प्रतिषेधाभ्यां स्वार्थमभिदधानः
सप्तभङ्गीमनुगच्छति ॥ १३ ॥ ___ अयं ध्वनि:-शब्दः, सर्वत्र विधिमुखेन निषेधमुखेन च, स्वार्थनित्यानित्यायने कान्तात्मकं वस्तु, अभिदधानः-प्रतिपादयन् , सप्तभगींस्यादस्तीत्यादिवश्यमाणप्रकारं सप्तधा प्रयोगमनुगच्छति ॥ १३ ॥ एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्कारा
ङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र-जीवाजीवादी वस्तुनि, एकैकधर्मपर्यनुयोगवशात्एकैकसत्वादिधर्मप्रश्नवशात्, अविरोधेन-प्रत्यक्षादिवाधापरिहारेण , व्यस्तयोः-पृथग्भूतयोः, समस्तयोः-समुदितयोश्च विधि-निषेधयोः कल्पनया-पर्यालोचनया कृत्वा, स्यात्काराङ्कितः-स्याच्छब्दलाञ्छितः, सप्तधा-सप्तप्रकार्रवचनविन्यासः सप्तमङ्गी ज्ञातव्या ।
इदमत्राऽऽकूतम् – जीवा नीवात्मकं सर्व हि वस्तुजातमनन्तधर्मात्म१. विधिनेषेधाभ्यां ख।