SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोके [सू० १००-१०४ पूर्वचरानुपलब्धियथा-नोद्गमिष्यति मुहूर्तान्ते स्वाति नक्षत्रं, चित्रोदयादर्शनात् ॥ १० ॥ अत्र प्रतिषेध्यः स्वात्युदयः तत्पूर्वचरश्चित्रोदयस्तस्यानुपलब्धिरिति पूर्वचरानुपलब्धिः ॥ १० ॥ उत्तरचरानुपलब्धियथा-नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वम् , उत्तरभद्रपदोद्गमानवगमात् ॥ १०१॥ अत्र प्रतिषेध्यः पूर्वभद्रपदोदयः तदुत्तरचरं उत्तरभद्रपदोदयः तस्यानुपलब्धिरित्युत्तरचरानुपलब्धिः ॥ १०१ ॥ सहचरानुपलब्धियथा-नास्त्यस्य सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०२ ॥ अत्र प्रतिषेध्यं सम्यगज्ञ नं तत्सहचरं सम्यग्दर्शनं तस्यानुपलब्धिरिति सहचरानुपलब्धिः ॥ १०२ ॥ विरुद्धानुपलब्धिस्तु विधिपतीतौ पञ्चधा ॥ १०३ ॥ विधिस्वरूपे साध्ये विरुद्ध नुालब्धिः पञ्चप्रकारेत्यर्थः ॥ १०३ ॥ विरुद्वकार्य-कारण स्वभाव-व्यापक-सहचरानुप लम्भभेदात् ॥ १०४॥ विधेयेनार्थेन सह विरुद्धा ये कार्य-कारण-स्वभाव-व्यापकसहचराः तेषामनुपलम्भभेदाद् विरुद्ध कार्यानुलब्धिः, विरुद्धकारणानु १. प्रभाव न।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy