SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५० प्रमाणनयतत्त्वालोके । [सु० ९२-९६ मधा222 ___ अत्र प्रतिषेच्यो मृगशीर्षोदयः तद्विरुद्धो मृगोदयः तदुत्तरचरः पूर्वफल्गुन्युदयः तस्योपलब्धिरिति विरुद्धोत्तरचरोपलब्धिः ॥ ९१ ॥ विरुद्धसहचरोपलब्धियथा-नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनात् ॥ ९२ ।। अत्र प्रतिषेध्यं मिथ्याज्ञ न तद्विरुद्धं सम्यग्ज्ञानं तस्य सहचरं सम्यग्दर्शनं तस्योपलब्धिरिति विरुद्धसहचरोपलब्धिः ॥ ९२ ॥ अनुपलब्धेरपि द्वैरूप्यमविरुद्वानुपलब्धिविरुद्धानु पलब्धिश्च ॥ ९३ ॥ प्रतिषेध्येनार्थेन सहाविरुद्धस्यानुपलब्धिरविरुद्धानुपलब्धिः, प्रतिध्येन सह विरुद्धस्यानुपलब्धिविरुद्धानुपलब्धिरित्यनुपलब्धिरपि द्विप्रकारेत्यर्थः ॥ ९३ ॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोचे सप्तमकारा॥९४॥ प्रतिषेध्येनाविरुद्धानां स्वभाव-व्यापक-कार्य-कारण पूर्वचरोत्तरचर-सहचराणामनुपलब्धिः ॥९५॥ स्वाभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरचरानुपलब्धिः, सहचरानुपलब्धिश्चेति सप्तप्रकाराऽविरुद्धानुपलब्धिर्ज्ञातव्या ॥ ९५ ॥ स्वभावानुपलब्धियथा-नास्त्यत्र भूतले कुम्भः, उपलब्धि लक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥ ९६॥ उपलब्धिः-ज्ञानम् । उपलब्धिलक्ष्यते-जन्यते एभिरित्युपलब्धिलक्षणानि-ज्ञानकारणानि, तानि प्राप्तः-जनकत्वेन ज्ञानकारणान्तर्भावाद्
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy