SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सू० ८७-९१ तृतीयः परिच्छेदः विरुद्धच्याप्तोपलब्धिर्यथा-नास्त्यस्य पुंसः तत्त्वेषु निश्चयः, तत्र सन्देहात् ॥ ८७॥ अत्र पतिषेध्यः तत्त्वेषु निश्चयः तेन साक्षाद् विरुद्धोऽनिश्चयः तस्य व्याप्यः सन्देहः, तस्योपलब्धिरिति विरुद्धव्याप्तोलब्धिः ।। ८७ ॥ विरुद्धकार्योंपलब्धिर्यथा-न विद्यतेऽस्य क्रोधाधुप शान्तिः , वदनविकारादेः ॥ ८८॥ अत्र प्रतिषेध्यः क्रोधाद्युपशमः तद्विरुद्धश्चानुपशमः, तत्कार्यस्य ताम्रत्वादिस्वरूपस्य वदनविकारादेरुपलब्धिरिति विरुद्धकार्योपलब्धिः॥ ८८॥ विरुद्धकारणोपलब्धियथा-नास्य महर्षेरसत्यं वचः समस्ति, राग-द्वेषकालुष्याकलङ्कितज्ञान सम्पन्नत्वात् ।। ८९॥ अत्र प्रतिषेव्यमसत्यं तद्विरुद्ध सत्यं तस्य कारणं राग-द्वेषकालुष्यैरकलङ्कितं ज्ञानं तस्योपलब्धिरिति विरुद्धकारणोपलब्धिः ।। ८९ ॥ विरुद्धपूर्वचरोपलब्धियथा-नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् ।। ९० ॥ अत्र प्रतिषेध्यो भविष्यत्पुष्यतारोदयः तद्विरुद्धो मृगशीर्षोदयः तस्य पूर्वचरो रोहिण्युदयः तस्योपलब्धिरिति विरुद्धपूर्वचरोपलब्धिः ।। ९०॥ विरुद्धोत्तरचरोपलब्धियथा-नोदगान्मुहूर्तात पूर्व मृगशिरः, पूर्वफल्गुन्युदयात् ॥ ९१ ॥ १. तरवेषु विनि ख। २. रोहिण्युदयात् ख । ३. पूर्वफान्गु कन।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy