________________
થc
प्रमाणनयतत्त्वालोके [२०८२-८६ अस्तीह सहकारफले रूपविशेषः, समास्वाधमानरस
विशेषात् , इति सहचरस्य ॥ ८२॥ अत्र रूपविशेषेण साध्येनाविरुद्धस्य सहचरस्य रसविशेषस्योपलब्धिरिति सहचराविरुद्धोपलब्धिः ॥ ८२ ॥ सायाविहरू
सस्चरापला, विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥८३॥ प्रतिषेधात्मके साध्ये विरुद्धोपलब्धिः सप्तप्रकारा इत्यर्थः ॥ ८३ ॥
तंत्राऽऽद्या स्वभावविरुद्धोपलब्धिः ॥ ८४ ॥ प्रतिषेध्यस्यार्थस्य यः स्वभावः-स्वरूपं तेन सह यत् साक्षाद् विरुद्धं तस्योपलब्धिः स्वभावविरुद्धोपलब्धिः ॥ ८४ ॥ यथा नास्त्येव सर्वथैकान्तः, अनेकान्तस्योप
लम्भात् ॥ ८५॥ अत्र प्रतिषेध्यः सर्वथैकान्तः तत्स्वरूपेण साक्षाद् विरुद्धोऽनेकान्तः तस्योपलब्धिरिति स्वभावविरुद्धोपलब्धिः ॥ ८५ ॥
प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८६॥
प्रतिषेध्येनार्थेन सह ये साक्षाद् विरुद्धास्तेषां ये व्याप्तादयो व्याप्य-कार्य-कारण-पूर्वचरोत्तरचर-सहचरास्तेषामुपलब्धयः षट् तथाहि-विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्ध पूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धिश्चेति ॥ ८६ ॥
१. आत्रामा क।