SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७ सू० ७९-८] तृतीयः परिच्छेदः भविष्यति वर्ष, तथाविधवारिवाहविलोकनात्, ___ इति कारणस्य ॥ ७९ ॥ अत्र साध्येन वर्षेणाऽविरुद्धस्य तथाविधवारिवाहस्य कारणस्योपलब्धिः कारणाविरुद्रोपलब्धिः । एवं ' अत्यत्र छाया छत्रात्' इत्यप्युदाहरणं द्रष्टव्यम् ।। ७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारका, पुनर्वसदयदर्शनात्, इति पूर्वचरस्य ॥ ८० ॥ तिष्यतारका-पुण्यनक्षत्रम् । अत्र साध्येन भविष्यत्तिभ्यतारकोदयेनाविरुद्धस्य पुनर्वसूदयस्य पूर्वचरस्योपलब्धिरिति पूर्वचराविरुद्धोपलब्धिः। 'अश्विनी, भरणी, कृत्तिका, रोहिणी, मृगशीर्षम् , आर्द्रा, पुनर्वसू, पुण्यः, आश्लेषा, मघा, पूर्वाफल्गुनी, उत्तराफल्गुनी, हस्तः, चित्रा, स्वातिः, विशाखा, अनुराधा, ज्येष्ठा, मूलम् , पूर्वाषाढा, उत्तराषाढा, अभिजित् , श्रवणः, धनिष्ठा, शतभिषक्; पूर्वाभद्रपदा, उत्तराभद्रपदा, रेवती' इति क्रमेणाष्टाविंशतिनक्षत्राणि ॥ ८० ॥ उदगुर्मुहूर्तात् पूर्व पूर्वफल्गुन्यः, उत्तरफल्गुनीना मुद्गमोपलब्धेः, इत्युत्तरचरस्य ॥ ८१॥ अत्र साध्येनातीतपूर्वफल्गुन्युदयेनाविरुद्धस्य उत्तरफल्गुनीनामुद्गमस्योत्तरचरस्योपलब्धिः, इत्युत्तरचराविरुद्धोपलब्धिः ॥ ८१ ॥ निसाध्यानाराय/9१. भविष्यति वृष्टिस्तथा ख। : । २. पूर्वफाल्गुन्य उत्तरफाल्गुनी कस्त्र ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy