SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोके [मू०७७-४ कारणे वाऽन्तर्भावः, तस्मात् सहचरहेतोरपि प्रोक्तेषु स्वभावादिषु नान्तर्भाव इति ॥ ७६ ॥ ध्वनिः परिणतिमान् , प्रयत्नानन्तरीयकलात्, यः प्रयत्नाऽनन्तरीयकः स परिणतिमान् , यथा स्तम्भः, यो वा न परिणतिमान् स न प्रयत्नानन्तरीयकः, यथा वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः . साधम्र्येण वेधर्म्यण ATM च ॥ ७७ ॥ या अत्र परिणतिमत्त्वेन साध्येनाविरुद्धस्य प्रयत्नाऽनन्तरीयकत्वस्य व्याप्यस्योपलब्धिर्वर्तते इति व्याप्याविरुद्धोपलब्धिः । यद्यपि धूमादिस्वरूपकार्यादिहेतूनामपि साध्यव्याप्यत्वं वर्तते तथापि तादृशव्याप्यत्वं नेह विवक्षितं अपि तु कथञ्चित्साध्येन सह तादाम्येन स्थितस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमेव व्याप्यत्वेन विवक्षितं अत एवेयं स्वभावोपलब्धिरित्यप्युच्यते ॥ ७७॥ अस्यत्यत्र गिरिनिकुञ्ज धनञ्जयः, धूमसमुपलम्मात्, इति कार्यस्य ॥ ७८॥ अत्र साध्येन वह्निनाऽविरुद्धस्य कार्यस्य धूमस्योपलब्धिर्वर्तते इति कार्याविरुद्धोपलब्धिः ॥ ७८ ॥ १. यच मक। २. भूमोपलम्मादिति ख । त्या
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy