________________
स०७४-७६] तृतीयः परिच्छेदः
४५ अयमर्थः-यव्यापारमन्तरा यत् कार्य नोत्पद्यते तत् कार्य प्रति तस्य कारणत्वं निश्चीयते यथा कुलालव्यापारमन्तरा घटस्योत्पत्तिर्न भवत्यतो घटं प्रति कुलालस्य कारणत्वं भवति, न चात्यन्तव्यवहिते कार्ये कारणस्य व्यापारः कल्पयितुं शक्यते, अतिप्रसङ्गात् ।। ७३ ॥ न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यम् ,
अतिप्रसक्तेः ।। ७४ ॥ तयोः-अतिक्रान्तानागतयोः जाग्रदशासंवेदन-मरणयोः ।।७४ ।। परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवार
यितुमशक्यखात् ।। ७५ ॥ प्रबोधोत्पातौ प्रति व्यवहितयोर्जाग्रदशासंवेदन-मरणयोरपि व्यापारपरिकल्पनेऽत्यन्तव्यवहितानामतीतानागतानामकरणत्वेनाभिमतानां रावणशङ्खचक्रवादीनामपि प्रबोधोत्पातौ प्रति व्यापारपरिकल्पनात् कारणत्वं स्यात् , तथा चानिष्टं स्यादिति भावः ॥ ७५ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन, तदुत्पत्तिविपत्तेश्च सहचर
हेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७६॥ न केवलं पूर्वचरोत्तरचरयोः स्वभावादिष्वन्तर्भावः अपि तु सह. चरहेतोरपि न तेष्वन्तर्भावः, तथाहि-सहचारिणोः रूप-रसयोः परस्परस्वरूपपरित्यागेनावस्थितत्वात् तादात्म्यं न सम्भवत्यतो न स्वभावहेतावन्तर्भावः, एवं सव्येतरगोविषाणयोरिव सहैवोत्पद्यमानत्वान्न कार्ये