SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू०७२-७३ अयं भावः-साध्य-साधनयोस्तादात्म्ये सति स्वभावहेतावन्तर्भावो भवेत्, यथा-'अयं वृक्षः शिंशपात्वात् ' इत्यस्य स्वभावेऽन्तर्भावः तथा साध्य-साधनयोः कार्य-कारणभावे सति कार्यहेतौ कारणहेतो वाऽतर्भावो विभाव्येत, यथा 'पर्वतो वह्निमान् धूमात्' इत्यस्य कायें, 'भविष्यति वर्ष तथाविधवारिवाहविलोकनात्' इत्यस्य कारणेऽन्तर्भावः । न च पूर्वचरोत्तरचरयोः स्वभावे कार्य-कारणभावे वाऽन्तर्भावः सम्भवति, स्वभावकार्य-कारणभावयोः कालयवधाने उपलम्भाभावात् , पूर्ववरोत्तरचरयोस्तु कालव्यवधानेऽपि उपलम्भो भवति, तस्मान स्वभावे कार्य कारणे वाऽन्तर्भावः ॥ ७१ ॥ न चातिक्रान्तानागतयोोग्रदशासंवेदन-मरणयोः प्रबोधोत्पातौ प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारबात् ।। ७२ ॥ ननु वर्तमानप्रबोधं प्रति मतीतस्य जाग्रदशासंवेदनस्य, एवं सांप्रतिकं ध्रुवाऽवीक्षणादिकमरिष्टं प्रति अनागतस्य मरणस्य कारगत्वदर्शनात् कालयवधानेऽपि कार्य-कारणभावो भवेत्येवेति वदन्तं निराकुर्वन्नाहुः-न चेत्यादि जाग्रदशासंवेदन-प्रबोधयोर्मरणारिष्टयोश्च कार्य-कारणभावो न सम्भवति तयोरत्यन्तव्यवहितत्वेन व्यापाराभावात् , नहि निर्यापारमपि कारणं भवति, निर्व्यापारस्यापि कारणत्वेऽङ्गीक्रियमाणे सर्व सर्व प्रति कारणं भवेत् ।। ७२ ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्व व्यवस्था कुलालस्येव कलशं प्रति ॥ ७३॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy