________________
2114211176 ५.१ 1747dk, ,
37 स.७०-७१] वतीयः परिच्छेदः चराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिरित्यविरुद्धोपलब्धेः षड् भेदा इत्यर्थः ।। ६९॥ तमखिन्यामाखाधमानादाम्रादिफलरसाद् एकसामग्र्य. नुमित्या रूपाधनुमितिमभिमन्यमानेरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरपति
स्खलनमपरकारणसाकल्यं च ।।७०॥ बौद्धाः किल वदन्ति-“विधिरूपस्य साध्यस्य सिद्धौ स्वभावकार्ये एव हेतुत्वेनाङ्गीकरणीये न कारणम् , तप्ताऽयोगोलके वह्निरूपस्य कारणस्य विद्यमानत्वेऽपि धूमरूपकार्यानुत्पादात्" तान् कारणस्यापि हेतुत्वमङ्गीकारयितुमाहुः-तमस्विन्यामित्यादि
माम्रादिफले रूप-रसयोजेनिका एकव सामग्री, तथा च रजन्यामास्वाधमानादाम्रादिफलरसात् तजनिका सामग्र्यनुमीयते, तया च सामच्या रूपानुमानं भवति, एवमभिमन्यमानैः सौगतैः स्वीकृतमेव कार्यानुमापकं प्रतिबन्धाभावविशिष्टं कारणान्तरसहकृतं च किमपि कारणम् , तस्मात् कारणस्यापि हेतुत्वमङ्गीकरणीयमिति भावः, एवं 'अस्त्यत्र छाया छत्रात्' इत्यादीन्यपि कारणानुमानानि ज्ञातव्यानि ॥ ७० ॥ पूर्वचरोत्तरचरयोन स्वभावकार्य-कारणभावौ, तयोः
कालव्यवहितावनुपलम्भात् ॥ ७१॥ पूर्वचरोत्तरचरयो स्वभावहेतौ तदुत्पत्तिहेतौ वाऽन्तर्भावो न सम्भवति, तयोः स्वभावकार्य-कारणभावयोः, कालव्यवहितो-कालव्यवधाने, अनुपलम्भात् ।
कारshe सामचा