________________
सू० ६०-६५] नृतीयः परिच्छेदः
४१ यथा मृत्पिण्डनिवृत्तावेव समुत्पधमानस्य घटस्य
मृत्पिण्डः ॥ ६० ॥ मृतपिण्डस्य नाशे सत्येव घटस्योत्पत्तिर्भवति अतः मृपिण्ड एव घटस्य प्रागभावः ॥ ६॥ यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य
प्रध्वंसाभावः ॥ ६१ ॥ यस्य पदार्थस्योत्पत्तो कार्यस्यावश्यं विपत्ति:-विनाशः स पदार्थः, मस्य कार्यस्य प्रध्वंसाभावः ॥ ६१॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य
कलशस्य कपालकदम्बकम् ॥ ६२ ।। घटनाशमन्तरा कपालोत्पत्तिर्न भवतीति कपालकदम्बकं घटस्य प्रध्वंसाभावः ॥ ६२ ।।
खरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥ ६३॥
स्वरूपान्तरात्-स्तम्भादिस्वरूपान्तरात्, स्वरूपच्यावृत्तिः-घटादिस्वरूपस्य व्यावृत्तिः, इतरेतराभावः-अन्योऽन्याभाव इत्यर्थः ॥६३॥ यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥ ६४ ॥
यथा स्तम्भस्वभावात्-स्तम्मस्वरूपात्, कुम्भस्वभावस्य कलशस्वरूपस्य, व्यावृत्तिरन्योऽन्याभावः ॥ ६४ ॥ कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्ति
रत्यन्ताभावः ॥ ६५ ॥ १. 'क्षिणी तादा कख ।