________________
४०
प्रमाणनयतत्त्वालोके [स० ५६-५९ साधकः, अनुपलब्धिरूपो हेतुनिषेघरूपस्य साध्यस्य सापक इति येऽभिमन्यन्ते तान् निराकर्तुमाहुः-उपलब्धिरिति____ अयं भावः-यथा उपलब्धिरूपस्य साध्यस्य साधिका तथा निषेधरूपस्यापि, एवमनुपलब्धियथा निषेधरूपस्य साध्यस्य साधिका तथा विधिरूपस्यापि, तस्मादुपलब्धिविधिरूपस्यैव साध्यस्य साधिका, अनुपलब्धिनिषेधरूपस्यैवेति नियमो न कर्तव्यः ॥ ५५ ॥
विधिः सदंशः ॥५६॥ सदसदात्मकस्य वस्तुनो यः सदंश:-भावरूपः स विधिरित्यर्थः ॥ ५६ ॥
प्रतिषेधोऽसदंशः ॥ ५७ ॥ सदसदात्मकस्य वस्तुनो योऽसदंशः -अभावरूपः स प्रतिपेष इति ।। ५७॥ स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावो
ऽत्यन्ताभावश्च ॥ ५८॥ सः-प्रतिवेवः प्रागभावादिभेदेन चतुर्विध इत्यर्थः। वस्तुन उत्पत्तेः प्राग् अभावः प्रागभावः, प्रबंसरूपोऽभावः प्रश्वंसाभावः, इतरस्येतरस्मिन्नभाव इतरेतराभावः, अत्यन्तं कालत्रयेऽप्यभावोऽयन्ताभावः।।५८॥ यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य
प्रागभावः ॥ ५९॥ यस्य पदार्थस्य-निवृत्तावेव नाशे एव सति, कार्यस्य समुत्पत्तिः स पदार्थः, अस्य कार्यस्य प्रागभावः ।। ५९ ॥