________________
२०५०-५५] तृतीया परिच्छेद।
३९ *यथा धूमश्चात्र प्रदेशे ॥ ५० ॥ हेतोधूमस्य, साध्यधर्मिणि पर्वते, उपसंहरण-'धूमश्चात्र पर्वते' इत्यादिरूपेण प्रदर्शनम् , उपनयशब्देनोच्यते ॥ ४९-५० ॥
साध्यधर्मस्य पुनर्निंगमनम् ॥ ५१ ॥
*यथा तस्मादग्निरत्र ॥ ५२ ॥ साध्यधर्मस्य वढेः, साध्यधर्मिणि पर्वते । तस्मादग्निरत्र' इत्यादिरूपेणोपसंहरणं निगमनमित्युच्यते ॥ ५१-५२॥ एते पक्षपयोगादयः पश्चाप्यवयवसंज्ञया
कीय॑न्ते ॥ ५३॥ पक्ष-हेतु-दृष्टान्तोपनय-निगमनानि, अपिशब्दात् तेषां शुद्धयश्च पश्च, अवयवशब्देनोच्यन्ते, इति ॥ ५३ ॥ उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धिभ्यां
भिद्यमानखात् ॥ ५४॥ उपलब्धिः-उपलम्भः, अनुपलब्धिः-अनुपलम्भः ताभ्यामुपलम्भानुपलम्भाभ्यां हेतुर्द्विप्रकार इत्यर्थः ॥ ५४ ॥ उपलब्धिर्विधि-निषेधयोः सिद्धिनिवन्धनमनु
पलब्धिश्च ॥ ५५॥ साध्यं द्विविधं विधिरूपं निषेधरूपं च, हेतुश्च द्विविध उपलब्धिरूपोऽनुपलब्धिरूपश्च, तत्र उपलब्धिरूपो हेतुर्विधिरूपस्य साध्यस्य
* इदमपि सूत्रं न मुद्रितं न व्याख्यातं च स्याद्वादरत्नाकरे। सं.